________________
षष्ठम् अध्ययनम्
१७७ परपीडाकराम् । न मृषां ब्रूयात् । नाप्यन्यं वादयेत्-ब्रुवतोऽप्यन्यान् नानुजानीयात् ।।
(स.) उक्तः प्रथमस्थानविधिः, अथ द्वितीयस्थानविधिमाह-अप्प...इतिसाधुम॒षावचनं न ब्रूयात् स्वयमात्मना, नापि मृषा अन्यं वादयेत्, ‘एकग्रहणे तज्जातीयग्रहणात् इतिन्यायेन, अन्यान् मृषा ब्रुवतो न समनुजानीयात्, किभूतं मृषा ? हिंसकं परपीडाकारि, सर्वमेव किमर्थं न वदेत् ? आत्मार्थमात्मनिमित्तं, कथम ? अग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादिरूपं, तथा परार्थं वा परनिमित्तं वा एवमेव पूर्ववत्. तथा क्रोधाद्वा 'त्वं दास' इत्यादिरूपम्, एकग्रहणेन तज्जातीयानां ग्रहणमितिन्यायात्, मानात्, कथम् ? 'अबहुश्रुत एवाहं बहुश्रुत' इत्यादिरूपं, मायातो वा, कथं ? भिक्षाटनस्यालस्येन मम पादपीडा वर्तत इत्यादिरूपं, लोभाद्वा, कथं ? शोभनतरस्यान्नस्य लाभे सत्यन्तप्रान्त(स्या)स्थाहारस्यैषणीयत्वेप्यनेषणीय-मिदमित्यादिरूपं, यदि वा भयात्, कथं ? किञ्चित् पापं कृत्वा प्रायश्चित्तभयान्न कृतं मयेति वदति, एवं हास्यादिष्वपि योजना कार्या ।।६.११।।
(सु.) उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह-अप्पट्ठा'इति, आत्मार्थ-आत्मनिमित्तं-अग्लान एव ग्लानोहं ममानेन कार्यमित्यादि, परार्थं वा-परनिमित्तं वा एवमेव, तथा क्रोधाद् वा 'त्वं दास' इत्यादि, एकग्रहणे तज्जातीयग्रहणमिति मानाद् वा, अबहुश्रुत एव-अहं बहुश्रुत एवमादि, मायातो भिक्षाटन-परिजिहीर्षया 'पादपीडा मम'इत्यादि, लोभात् शोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽपि अनेषणीयमिदमित्यादि, यदिवा भयात् किंञ्चिद् वितथं कृत्वा प्रायश्चित्तभयान्न कृतमित्यादि, एवं हासादिष्वपि वाच्यम् । अत एवाह-हिंसकं-परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं, नाप्यन्यं वादयेत्, एकग्रहणे तज्जातीयग्रहणात् ब्रुवतोऽप्यन्यान् न समनुजानीयादिति ।।६.११।। मुसावाओ य लोयम्मि, सव्वसाहहिं गरहिउओ । अविस्सासो य भूयाणं, तम्हा मोसं विवज्जए ||६.१२।। (ति.) किमित्येतत् ? - इत्याह-स्पष्टः | नवरम् । भूतानाम्-प्राणिनाम् ।।६.१२ ।।
(स.) किमित्येतदेव मृषावदनं न ? - इत्याह-मुसा...इति-मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिर्गर्हितो निन्दितोऽस्ति, सर्वत्र तापकारित्वात् प्रतिज्ञातस्या