________________
१७८
दशवैकालिकं-टीकात्रिकयुतम् परिपालनात्, पुनर्मूषावादादविश्वास्योऽविश्वसनीयश्च भूतानां प्राणानां मृषावादी भवेत्, यस्मादेवं तस्मात् साधु म॒षावादं विवर्जयेत् ।।६.१२ ।।
(सु.) किमिति एतद् ?-इत्याह-मुसावाओ इति, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिर्गर्हितो-निन्दितः, सर्वव्रतापकारित्वात्, प्रतिज्ञातापालनात् अविश्वासश्चअविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मात् मृषावादं वर्जयेदिति ||६.१२ ।।
चित्तमंतमचित्तं वा, अणुं वा जइ वा बहुं । दंतसोहणमित्तं पि, उग्गहं से अजाइया ।।६.१३।।
(ति.) उक्तो द्वितीयस्थानविधिः, तृतीयमाह-स्पष्टः । नवरम् । से-तस्य गृहस्थस्य ||६.१३।।
(स.) उक्तो द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह-चित्त...इतिसाधवोऽयाचित्वा कदाचनापि न किमपि गृह्णन्ति, यतः साधूनां सर्वमवग्रहयाचने गृहस्थैर्दत्तं ग्राह्यं नान्यथा, किं तद् ? आह-चित्तवद् द्विपदादि, अचित्तवद् वा हिरण्यादि, अल्पं वा मूल्यतः प्रमाणतश्च, यदि वा बहु मूल्य-प्रमाणाभ्यामेव, किं बहुना? दन्तशोधनमात्रमपि तथाविधं तृणाद्यपि, एतावता साधवस्तृणाद्यप्यदत्तं न गृह्णन्ति, किमन्यत् ?।।६.१३।। ____(सु.) उक्तो द्वितीयस्थानो विधिः। साम्प्रतं तृतीयस्थानविधिमाह-चित्तमंतं'इति, चित्तवत्-द्विपदादि वा अचित्तवद् वा-हिरण्यादि, अल्पं वा-मूल्यतः प्रमाणतश्च, यदि वा बहु-मूल्यप्रमाणाभ्यामेव, किं बहुना ? दन्तशोधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत् तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति ||६.१३ ।।
तं अप्पणा न गिन्हंति, नो वि गिन्हावए परं । अन्नं वा गिन्हामाणं पि, नाणुजाणंति, संजया ||६.१४।। (ति.) स्पष्टः ।।६.१४।।
(स.) पुनस्तदेवाह-तं'इति-संयताः तमिति तत् पूर्वोक्तं चित्तवदचित्तवदाद्यात्मना स्वयं न गृह्णन्ति विरतत्वात्, नापि परं प्रति ग्राहयन्ति विरतत्वादेव, तथान्यं वा गृह्णन्तमपि स्वयमेव न समनुजानन्ति नानुमन्यन्ते ।।६.१४ ।।