________________
दशवैकालिकं - टीकात्रिकयुतम्
(सु.) एतदेव स्पष्टयन्नाह - जावन्ति इति, यतो हि भागवत्याज्ञा - यावन्तः केचन लोके प्राणिनस्त्रसा-द्वीन्द्रियादयः, अथवा स्थावराः - पृथिव्यादयः तान् जानन् रागाद्यभिभूतो व्यापादनबुद्ध्या - ऽजानन् वा प्रमादपारतन्त्र्येण न हन्यात् स्वं नापि घातयेत् अन्यैः, 'एकग्रहणे तज्जातीय-ग्रहणात्' घ्नतोऽपि अन्यान् न समनुजानीयात्, अतो निपुणदृष्टेति ।।६.९।।
१७६
सव्वजीवा वि इच्छंति, जीविरं न मरिज्जिउं ।
तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णं ।। ६.१० ।।
(ति.) अहिंसैव कथं साध्वी ? - इत्याह - [ सव्व...]–स्पष्टः ।।६.१०।।
(स.) नन्वहिंसैव कथं भव्या ? - इत्यत आह- सव्व इति तस्मात् कारणान्निर्ग्रन्थाः साधवः प्राणवधं वर्जयन्ति, किंभूतं प्राणवधं ? घोरम् रौद्रं दुःखहेतुत्वात्, तस्मात् कस्मात् ? यतः सर्वे जीवा अपि सुखितादिभेदभिन्ना जीवितुमिच्छन्ति, न मर्तु. कथ ? प्राणवल्लभत्वात् तेषां सर्वेषां णमिति वाक्यालङ्कारे. ।।६.१० ।।
(सु.) अहिंसैव कथं साध्वी ? इत्येतदाह - सव्व... इति, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तुं प्राणवल्लभत्वाद् । यस्मादेवं, तस्मात् प्राणवधं घोरं रौद्रं दुःखहेतुत्वात्, निर्ग्रन्थाः साधवो वर्जयन्ति भावतः । णमिति वाक्यालङ्कारे इति ।।६.१०।।
अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुसं बूया, नो वि अन्नं वयावए ।।६.११।।
(ति.) उक्तः प्रथमस्थानविधिः, द्वितीयविधिमाह - आत्मार्थम् - अग्लानोऽपि ग्लानोऽहं ममानेन कार्यमित्यादि । परार्थमप्येवमेव । क्रोधाद् वा त्वं दास इत्यादि । एकग्रहणे तज्जातीयग्रहणमिति मानात् - अबहुश्रुतोऽप्यहं बहुश्रुत इत्यादि । मायातः भिक्षाटनाऽऽलस्यात्-ममाद्य पीडेत्यादि । लोभात् स्वादिष्टान्नलाभे सति प्रान्तमेषणीयमप्यनेषणीयमित्यादि' । यदि वा भयात् - कृतमप्यकृत्यमपलपति । एवं हास्यादेरपि । हिंसकाम्
१. दि एवं २.४ - ९.११.१२ ।।