SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७५ षष्ठम् अध्ययनम् साक्षाद् धर्मसाधकत्वेनोपलब्धा । अतोऽस्यामेव श्रीमहावीरदेशितायां सर्वभूतेषुसर्वभूतविषयः । संयमः - नान्यत्र आधाकर्मादिभोगात् ।।६.८ ।। (स.) गुणा अष्टादशस्थानेष्वखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह - तत्थिमं... इतितत्राष्टादशविधस्थानगणे व्रतषट्के वा महावीरेण भगवतेदं वक्ष्यमाणलक्षणं प्रथमं स्थानमनासेवनद्वारेण देशितं कथितं, किं तत् ? - इत्याह- अहिंसा, न हिंसा अहिंसा जीवदया, इयं च सामान्यतः प्रभूतैर्दर्शितेत्यत आह, किंभूताऽहिंसा ? निपुणा, आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा नागमद्वारेण देशिता, अपि तु दृष्टा साक्षाद्धर्मसाधनत्वेनोपलब्धा, किमितीयमेव निपुणा इत्याह-यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः संयमो नान्यत्रोद्दिश्यकृतादिभोगविधानादिति ।।६.८।। (सु.) गुणा अष्टादशसु स्थानेष्वखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह - तत्थिमं‘इति, तत्राष्टादशविधे स्थानगणे व्रतषट्के वाऽनासेवनाद्वारेणेदं वक्ष्यमाणलक्षणं प्रथमं स्थानं महावीरेण-भगवता अपश्चिमतीर्थकरेण देशितं कथितं यदुत - अहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्याह-निपुणा-आधाकर्म्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, नागमद्वारेण देशिता अपि तु दृष्टा - साक्षाद्धर्म-साधन (क) त्वेनोपलब्धा, किमितीयमेव निपुणा ?-इत्याह-यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः संयमो, नान्यत्र उद्दिश्य कृतादिभोगविधानादिति ।।६.८ ।। जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे नो हणावए ।।६.९।। 1 ( ति.) तदेव स्पष्टयन्नाह - यावन्तो लोके प्राणाः सा अथवा स्थावराः । तान् जानन्-प्रयोजनेनापि । अजानन् वा-प्रमादेनापि । न हन्यात्, नापि घातयेत् । उभयग्रहणे तृतीयमनुक्तमपि लभ्यते । अतो घ्नतोऽप्यान्यान् नानुजानीयादित्यर्थः ।।६.९ ।। (स.) एतदेव स्पष्टयन्नाह - जावन्तीति यतो हि भगवत इयमाज्ञा यावन्तो लोके केचन प्राणिनस्त्रसा द्वीन्द्रियादयः, अथवा स्थावराः पृथिव्यादयः तान् जानन् रागाद्यभिभूतो व्यापादनबुद्ध्या अजानन् वा प्रमादपारतन्त्र्येण साधुः तान् जीवान् न हन्यात् स्वयं, न चाभिघातयेदन्यैर्न च घ्नतोऽप्यन्यान् समनुजानीयादतो निपुणदृष्टेति । । ६.९ । ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy