________________
दशवैकालिकं - टीकात्रिकयुतम् विरमण-मृषावादविरमणा-दत्तादानविरमणा-ब्रह्मविरमण-परिग्रहविरमण - रात्रिभोजनविरमणरूपं, तथा कायषट्कं पृथिव्यप्तेजोवायुवनस्पति-त्रसकायरूपम्, अकल्पकः शिक्षकस्थापना-कल्पादिर्वक्ष्यमाणः गृहिभाजनं गृहस्थसम्बन्धि-कांस्यभाजनादि प्रतीतं, पर्यङ्कः शयनीयविशेषः प्रतीतः, निषद्या च गृह एकानेकरूपा, स्नानं देशतः सर्वतश्च द्वेधा. शोभावर्जनं च विभूषापरित्यागः, वर्जनशब्दः प्रत्येकमभि - संबद्ध्यते, स्नानवर्जनमित्यादि ।।६.७।।
१७४
(सु.) ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीत्यगुणास्तावदुच्यन्ते - दस 'इतिदशाष्टौ च स्थानानि - असंयमस्थानानि वक्ष्यमाणलक्षणानि यान्याश्रित्य बालःअज्ञोऽपराध्यति तत्सेवनयाऽपराधमाप्नोति । कथमपराध्यति ? - इत्याह-तत्रान्यतरे स्थाने वर्त्तमानः प्रमादेन निर्ग्रथत्वात्-निर्ग्रन्थभावाद् भ्रश्यति निश्चयनयेनापैति बाल इति, कानि पुनस्तानि स्थानानि ? इत्याह
"वयछक्कं कायछक्कं, अकप्पो गिहिभायणं ।
पलियंकनिसज्जा य, सिणाणं सोहवज्जणं ।। " ( दश. नि. १७० ) ।।
वयछक्क'इति, व्रतषट्कं प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड्व्रतानि, कायषट्कं-पृथिव्यादयः षड्जीवनिकायाः, अकल्पः- शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः, गृहिभाजनं - गृहस्थभाजनं गृहस्थसम्बन्धि कांस्यभाजनादि प्रतीतं पर्यङ्कःशयनीयकविशेषः प्रतीतः, निषद्या च गृहे एकानेकरूपा, स्नानं देश- सर्वभेदभिन्नं, शोभावर्जनं विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसम्बध्यते शोभावर्जनं स्नानवर्जनमित्यादीति । । ६.७ ।।
तत्थिमं पढमं ठाणं, महावीरेण देसियं ।
अहिंसा निउणा दिट्ठा, सव्वभूएहि संजमो ।।६.८।।
(ति.) ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीत्यगुणास्तावदुच्यन्ते-दस 'इति तत्रेदम्-अष्टादशसु स्थानेषु प्रथमं स्थानं महावीरेण देशितम् । किं तत् ? अहिंसेतिइयमन्यैरप्युक्ता । परं निपुणा-आधाकर्मादिभोगत्यागेन सूक्ष्मा । स्वामिनैव दृष्टा