________________
षष्ठम् अध्ययनम्
१७३ (सु.) एतदेव संभावयन्नाह-सखुड्डुग'इति, सह क्षुल्लकैः-द्रव्य-भावबालैर्ये वर्तन्ते, ते व्यक्ता-द्रव्य-भाववृद्धाः, तेषां सक्षुल्लकव्यक्तानां, सबाल-वृद्धानामित्यर्थः, व्याधिमतां चशब्दादव्याधिमतां च, सरुजानां नीरुजानां चेतिभावः । 'जे' ये गुणा वक्ष्यमाणलक्षणाः, तेऽखण्डा-अस्फुटिताः कर्त्तव्याः, अखण्डा देशविराधनापरित्यागेन, अस्फुटिताः सर्वविराधनापरित्यागेन, तत् श्रुणुत यथा कर्तव्यास्तथेति ।।६.७।।
दस अट्ठ य ठाणाणि, जाई बालोवरज्झई । तत्थमन्नयरे ठाणे, निग्गंथत्ताउ भस्सई ।।६.७।।
(ति.) ते चाऽगुणत्यागेन स्युः इत्यगुणास्तावदुच्यते-दशाष्टौ च स्थानानि यानि बालः-अज्ञोऽपराध्यति । तत्र-तेषाम् । अन्यतरे स्थाने-प्रमादाद् वर्तमानः | निग्रन्थभावाद् भ्रस्यति ।
वयछक्कं कायक्कं, अकप्पो गिहिभायाणं । पलियंकनिसिज्जा य, सिणाणं सोहवज्जणं ||१|| [दशवै. नियुक्ति १७०] कानि पुनस्तानि स्थानानि ? - इत्याह
प्राणातिपातविरत्यादीनि रात्रिभोजनविरतिषष्ठानि व्रतानि व्रतषट्कम् । अस्यानासेवनेना गुणत्वम् । कायषट्कम्-पृथ्वादयः षट्जीवनिकायाः । एषामरक्षणेनागुणत्वम् । अकल्पशिक्षकस्थापनाल्पादिः । गृहिभाजनम्-कांस्यस्थालम् । पल्यङ्कः-खट्वा । निषद्या-गृहे निषदनम् आसनम् । स्नानम्-देश-सर्वभेदभिन्नम् । अकल्पादीनां पञ्चानामासेवनेनागुणत्वम् । शोभया अवर्जनमगुणः । द्वारगाथेयम् ।
(स.) ते च गुणा अगुणपरिहारेणाऽखण्डा अस्फुटिताश्च भवन्ति-इति प्रथमगुणा उच्यन्ते-दस'इति-बालोऽज्ञानी यानि दशाष्टौ अष्टादशस्थानान्यसंयमस्थानानि वक्ष्यमाणलक्षणान्याश्रित्यापराध्यति, तत्सेवनयापराधं प्राप्नोति, कथमपराध्यति ?इत्याह-तत्रान्यतरेऽष्टादशानामसंयमस्थानानां मध्ये एकतरस्मिन्नपि स्थाने वर्तमानः प्रमादेन निर्ग्रन्थत्वान्निर्ग्रन्थभावाद् भ्रश्यति, निश्चयनयेनापति, कः ? पूर्वोक्तो बाल इति.
कानि पुनस्तानि स्थानानि ? - इत्याह-वय...इति-व्रतषट्कं प्राणातिपात