________________
१७२
दशवैकालिकं-टीकात्रिकयुतम् दुःकरम । विपुलं-विशालमनन्तं, स्थानं-अवस्थानं, यत्र स विपुलस्थानो मोक्षस्तद्धेतुत्वात् संयमोऽपि विपुलस्थानं, तद् भाजिनः-तदासेविनः । न भूतं न भविष्यति-अन्यज्जिनमतात् ||६.५।।
(स.) इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरस्य यत्कथनं तस्योपन्यासः कृतः, अथ तस्यैवार्थतो गुरुतामाह-नऽन्न..इति-भो राजादयः ! जिनमतादन्यत्र कपिलादिमत ईदृशं यत् पूर्वमुक्तमाचार-गोचरं वस्तु, यल्लोके प्राणिलोके परमदुश्चरमत्यन्तदुष्करं वस्तु, विपुलस्थानभाजिनः, कोऽर्थः ? विपुलस्थानं, विपुलमोक्षहेतुत्वात् संयमस्थानं, तद् भजते सेवत इत्येवंशीलो विपुलस्थानभाजी, तस्य विपुलस्थानभाजिनः साधोर्न भूतं न भविष्यति. ||६.५।।।
(सु.) इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचर-कथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह-नऽन्नत्थ...इति, न अन्यत्र-कपिलादिमते ईदृशं उक्तमाचारगोचरं वस्तु यल्लोके-प्राणिलोके परमदुश्चरं-अत्यन्तदुष्करमित्यर्थः । ईदृशं च विपुलस्थानभाजिनःविपुलस्थानं-विपुलमोक्षहेतुत्वात् संयमस्थानं, तद् भजते-सेवते तच्छीलश्च यः, तस्य न भूतं न भविष्यतीति अन्यत्र जिनमतादिति ।।६.५।।
सखुड्डगवियत्ताणं, वाहियाणं च जे गुणा । अखंड-फुल्ला कायव्वा, तं सुणेह जहा तहा ||६.६।।।
(ति.) सक्षुल्लकव्यक्तानाम्-सबाल-वृद्धानां द्रव्यभावरूपाणाम् । व्याधिमतां च । ये गुणाः-वक्ष्यमाणाः । ते अखण्ड(डा-)स्फुटिताः कर्तव्याः-अखण्डा देशाविराधनया, अस्फुटिताः। सर्वाविराधनया । तच्छृणुत । यथा-कर्तव्याः । तथेति ।।६.६ ।।
(स.) पुनरेतदेव भावयन्नाह-सखुड्ड...इति-सक्षुल्लकव्यक्तानां ये गुणा वक्ष्यमाणलक्षणाः तेऽखण्डास्फुटिताः कर्तव्याः, कोऽर्थः ? सह क्षुल्लकैर्द्रव्य-भावबालैर्ये वर्तन्ते ते सक्षुल्लकाः व्यक्ताश्च द्रव्य-भाववृद्धाः, तेषां सक्षुल्लकव्यक्तानां सबालवृद्धानामित्यर्थः, किम्भूतानां सक्षुल्लकव्यक्तानां ?-व्याधिमतां, चशब्दादव्याधिमतां च, सरोगाणामरोगाणां चेति भावः ? किम्भूता गुणाः ? अखण्डाऽस्फुटिताः, अखण्डा देशविराधनापरित्यागेन, अस्फुटिताश्च सर्वविराधनात्यागेन, तत् श्रुणुत यथा कर्तव्यास्तथेति. ।।६.६ ।।