________________
१७१
षष्ठम् अध्ययनम्
(सु.) तेसिं...इति, तेभ्यो राजादिभ्यः, असौ गणी निभृतोऽसम्भ्रान्तः उचितधर्मकायस्थित्या, दान्त इन्द्रिय-नोइन्द्रियदमाभ्यां, सर्वभूतसुखावहः-सर्वप्राणिहित इत्यर्थः । शिक्षया-ग्रहणासेवनारूपया, सुसमायुक्तः, सुष्टु-एकीभावेन युक्तः, आख्याति-कथयति विचक्षणः-पण्डित इति ।।६.३।।
हंदि धम्मत्थकामाणं, निगंथाण सुणेह मे । आयारगोयरं भीमं, सयलं दुरहिट्ठियं ।।६.४।। (ति.) हंदि इति-सम्बोधने । धर्मः चारित्रधर्मः, तस्यार्थः-प्रयोजनं मोक्षः, तत्र, कामो-ऽभिलाषो येषां ते धर्मार्थकामाः, तेषां धर्मार्थकामानाम् । निर्ग्रन्थानां श्रुणुत । मे-मम पार्थ्यात् । आचारः क्रियागोचरो, महत्वाल्लक्षणया कलापः तम्, आचारगोचरम्क्रियाकलापम् । भीमम्-कर्मशत्रून् प्रति रौद्रम् । सकलम्-सम्पूर्णम् । दुरधिष्ठातम्हीनसत्त्वैर्दुःपालम् ।।६.४।।
(स.) किंवदेत् ? इत्याह हंदि...इति-हंदीत्युप(प्र)दर्शने, हे राजादयः ! यूयं धर्मार्थकामानामाचारगोचरं क्रियाकलापं मत्समीपात् श्रुणुत इत्युक्तिः, धर्मश्चारित्रधर्मादिः, तस्यार्थः प्रयोजनं मोक्षः, तं कामयन्ते वाञ्छन्ति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा मुमुक्षवः, तेषां, किम्भूतानां धर्मार्थकामानां निर्ग्रन्थानां बाह्याभ्यन्तरग्रन्थिरहितानां, किम्भूतमाचारगोचरं ? भीमं कर्मशत्रूणामपेक्षया रौद्रं, पुनः किम्भूतमाचारगोचरं ? सकलं संपूर्ण दुरधिष्ठितं क्षुद्रसत्त्वैर्दुराश्रयमिति. ||६.४।। ___ (सु.) हंदि धम्मत्थ, हन्दीत्युपप्रदर्शने, तमेनं धर्मार्थकामानामिति, धर्म:चारित्रधर्मादिः तस्यार्थः-प्रयोजनं मोक्षः तं कामयन्ति-इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा-मुमुक्षवः, तेषां निर्ग्रन्थानां-बाह्याभ्यन्तरग्रन्थ-रहितानां श्रुणुत मम समीपात्, आचारगोचरं-क्रियाकलापं भीम-कर्मशत्र्वपेक्षया रौद्रं सकलं-संपूर्ण दुरधिष्ठं(ष्ठितं)-क्षुद्रसत्त्वैर्दुराश्रयमिति ।।६.४ ।।
नन्नत्थ एरिसं वुत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूयं न भविस्सइ ||६.५।।
(ति.) अस्यैवाचारगुरुतामाह-नान्यत्र-मिथ्यादृग्मते । ईदृशम्-आचारललितम् । उक्तं । यल्लोके-षष्ठ्यर्थे सप्तमी, लोकस्य सामान्यजनस्य । परमदुश्चरम्-अत्यन्त