________________
१७०
दशवैकालिकं-टीकात्रिकयुतम् ताभ्यां सम्पन्नं संयुक्तम्, पुनः किम्भूत साधु ? संयमे पञ्चानामाश्रवाणां विरमणादौ, तपसि चानशनादौ रतमासक्तम्, पुनः किम्भूतं साधुम् ? उद्याने क्वचित् साधूनामुपभोगयोग्यस्थाने समवसृतं स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति प्रथमगाथार्थः ||६.१।।
(स.) व्याख्यातं पिण्डैषणाध्ययनं, अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने साधोभिक्षाविशोधिरुक्ता; इह तु गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्ति-इति वक्तव्यमित्येतदुच्यते, उक्तं च"गोयरग्गपविठ्ठो उ, न निसीएज्ज कत्थइ । कहं च न पबंधेज्जा चिट्ठिताण व संजए ||अत्रैव ५.२.७।।"
इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तच्चेदं-नाणदंसणसंपन्नं इत्यादि, ज्ञानदर्शनसंपन्नं ज्ञान-श्रुतज्ञानादि, दर्शन-क्षायोपशमिकादि ताभ्यां संपन्नं-युक्तं, संयमेपञ्चाश्रवविरमणादौ, तपसि च-अनशनादौ रतं-आसक्तं, गणोऽस्यास्तीति गणी, तं गणिनं-आचार्य, आगमसंपन्नं-विशिष्टश्रुतधरं, बवागमत्वेन प्राधान्यख्यापनार्थमेतत् । उद्याने-क्वचित्साधुप्रायोग्ये, समवसृतं-स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति ।।६.१।।
(सु.) तत् किम् ? इत्याह-रायाणो इति, राजानः-नरपतयः, राजामात्याश्च-मन्त्रिणः, ब्राह्मणाः प्रतीताः, अदुवा इति तथा क्षत्रियाः श्रेष्ठ्यादयः पृच्छन्ति निभृतात्मानः-असम्भ्रान्ता रचिताञ्जलयः, कथं भे-भवतामाचार-गोचरः-क्रियाकलापः स्थित इति ||६.२।।
तेसिं सो निहुओ दंतो, सव्वभूयसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ वियक्खणे ।।६.३।। (ति.) स्पष्टः । नवरम् । शिक्षया-ग्रहणासेवनरूपया । सुष्ठु समायुक्तः ||६.३ ।। . (स.) अथ स साधू राजादिभ्यः पृच्छकेभ्यः किं वदेत् ? इत्याह-तेसिं'इति-स गणी साधुः, तेभ्यो राजादिभ्य आख्याति कथयति, किम्भूतः साधुः ? निभृतोऽसम्भ्रान्त उचितधर्मकथास्थित्या, किम्भूतः साधुः? [दान्तः] इन्द्रियनो-इन्द्रियदमनेन, पुनः किम्भूतः साधुः ? सर्वभूतसुखावहः सर्वप्राणिहित इत्यर्थः, पुनः किम्भूतः साधुः ? शिक्षया ग्रहणासेवनारूपया सुष्ठु भव्यरीत्या समायुक्तः, पुनः किम्भूतः साधुः ? विचक्षणः पण्डित इति गाथात्रयार्थः ।।६.३।। १. गणिमागमसंपन्नम्'इत्येतद् विशेषणद्वयं न विवृतं, कथमिति न ज्ञायते । २. असम्भ्रातः १० टि. ।।