________________
।। षष्ठं अध्ययनं महाचारकथा ।।
नाण-दंसणसंपन्नं, संजमे य तवे रयं । गणिमागमसंपन्नं, उज्जाणम्मि समोसढं ||६.१।।
रायाणो रायमच्चा य, माहणा अदुव खत्तिया । पुच्छंति निहुयप्पाणे कहं भे आयारगोयरो ? ||६.२।।
(ति.) अनन्तराध्ययने पिण्डशुद्धिरुक्ता । तत्र च गृहादौ पृष्टेन, न सविस्तरः स्वाचारो वाच्यः, किन्तु स्वाश्रये स च क्षुल्लिकाचारकथातो महान् महाचारकथायां सविस्तरं वाच्य इति महाचारकथाध्ययनं व्याख्यायते । तच्चेदम् -ज्ञानम्-श्रुतज्ञानादि | दर्शनम्-क्षायोपशमिकादि । ताभ्यां सम्पन्नम्-युक्तं । संयमे तपसि च रतम् । गणिनम्-आचार्यम् । आगमसम्पन्नम्-विशिष्टश्रुतधरम् । उद्याने-उद्यानस्थे प्रासादे । समवसृतम्-अवस्थितम् ।।६.१।।
तत्र च - [रायाणो...इति] पूर्वार्द्धं स्पष्टम् । पृच्छन्ति । निभृतात्मानः-एकाग्रचित्ताः । कथं भो ! भवताम् आचारगोचर इति ।।६.२।।
(स.) नाण...इति, व्याख्यातं पिण्डैषणाऽऽध्ययनम्, अधुना 'महाचारकथा'ऽध्ययनस्यमारभ्यते, अन चाध्ययनस्यायमभिसम्बन्धः-इहेतः पूर्वाध्ययने साधोर्भिक्षाविशुद्धिरुक्ता, इह तु गोचरप्रविष्टेन सता, स्वस्याचारं पृष्टेनाचारज्ञेनापि महाजनसमक्षं तत्रैव स्थाने विस्तरतो न कथयितव्यम्, अपि तूपाश्रये गुरवः कथयिष्यन्तीति वक्तव्यम्, इत्येतदुच्यते-इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति. तथाहि-गाथात्रयेणोक्तिमेलनं, राजानो नरपतयः, राजामात्याश्च मन्त्रिणः, ब्राह्मणाः प्रसिद्धाः, 'अदुव'इति' तथा क्षत्रियाः श्रेष्ठ्यादयः साधुं प्रतीति पृच्छन्ति, इतीति किं ? कथं भे भवतामाचारगोचरः क्रियाकलापः ? यं प्रति त्वं स्थितोसि, किम्भूता राजादयः, निभृतात्मानोऽसंभ्रान्ता बद्धाञ्जलय इति द्वितीयगाथाया व्याख्यानं ।।६.२ ।।
किम्भूतं साधुं ? नाणदंसणसम्पन्नं, ज्ञानं श्रुतज्ञानादि, दर्शनं च क्षायोपशमिकादि.