________________
१६६
दशवैकालिकं-टीकात्रिकयुतम् (स.) पुनः स्तेनाधिकार एवेदमाह-तव...इति-एवंविधः साधुर्देवकिल्विषं कर्म करोति निर्वर्तयतीत्यर्थः, किम्भूतः साधुः ? तपास्तेनः, वाक्स्तेनः, तथा रूपस्तेनश्च, यो नरः, तथाचारस्तेनः, तथा भावस्तेनश्च, तत्र तपःस्तेनो नाम यः क्षपकरूपसदृशः, केनचित् पृष्टत्वमसौ क्षपक इति, तदा पूजाद्यर्थमाह अहमिति, अथवा वक्ति साधवः क्षपका एव, अथवा तूष्णीमास्ते, एवं वास्तेनो धर्मकथकादिसदृशरूपः कोऽपि केनचित् पृष्टस्तथैवाह, एवं रूपस्तेनो राजपुत्रादिसदृशरूपः पृष्टस्तथैवाह, एवमाचारस्तेनो विशिष्टाचारवर्तिसदृशरूपस्तथैवाह, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मया तत्प्रपञ्चेनेदं चर्चितमित्याद्याह, स इत्थम्भूतः साधुर्दुष्टभावदोषात् क्रियां पालयन्नपि देवकिल्विषं निर्वर्तयति. ।।५.२.४६ ।।
(सु.) स्तेनाधिकार एवेदमाह-तव'इति तपस्तेनो वास्तेनो रूपस्तेनश्च यो नरः कश्चिद् आचारभावस्तेनश्च [नामक्षपकरूपश्च] पालयन्नपि क्रियां तथाभावदोषात्, करोति देवकिल्बिषं कर्म निवर्त्तयतीत्यर्थः, तत्र तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टः, त्वमसौ क्षपक इति ?, पूजाद्यर्थमाह-अहं, अथवा वक्ति-साधव एव क्षपकास्तूष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित् केनचित प्रष्ट इति । एवं रूपस्तेनो राजपुत्रादेस्तुल्यरूपः । एवमाचारस्तेनो विशिष्टाचारवर्तितुल्यरूप इति । भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् केनचित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति ।।५.२.४६ ।।
लक्षूण वि देवत्तं, उववन्नो देवकिविसे । तत्था वि से न याणाइ, किं मे किच्चा इमं फलं ।।५.२.४७ ।।
(ति.) अयं चेत्थंभूतः लब्ध्वापि देवत्वम् । उपपन्नो देवकिल्बिषः-किल्बिषिकदेवः । तत्रापि सन् जानाति-विशुद्धावधिज्ञानाभावात् । किं कृत्वा ममेदं फलं जातमिति शेषः ।।५.२.४७।।
(स.) पुनस्तस्य किं स्यात् ? तद् आह-लद्धूण...इति-असौ साधुर्लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषे देवकिल्बषकाये, तत्रापि स न जानाति विशुद्धस्यावधेरभावेन, किं न जानाति तदाह-किं कृत्वा ? ममेदं फलं किल्बिषदेवत्वं जातमिति. ।।४।।