________________
१६७
पञ्चमम् अध्ययनम्
(सु.) अयं चेत्थंभूतः, लद्धण वा इति, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषे-देवकिल्बिषिकाये, तत्राप्यसौ न जानाति विशुद्धावध्यभावात्, किं मम कृत्वेदं फलं-किल्बिषिकदेवत्वमिति ।।५.२.४७ ।।
तत्तो वि से चइत्ताणं, लब्भिही एलमूययं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ।।५.२.४८।। (ति.) स्पष्टः । से-इत्यसौ । एडमूकताम्-अवाक्-श्रुतित्वम् ।।५.२.४८ ।।
(स.) पुनरस्यैव साधोर्दोषान्तरमाह-तत्तो-'इति-ततोऽपि देवलोकाच्च्युत्वापि स साधुर्मानुषत्वे एलमूकताम्-अज-भाषानुकारित्वं लप्स्यते, पुनस्ततोऽपि परम्परया नरकं तिर्यग्योनि वा लप्स्यते, तत्र च बोधिः सकलसम्पत्तिकारिणी जिनधर्मप्राप्तिः सुदुर्लभा दुरापा दुःखेन प्राप्या भविष्यतीति. ।।४८।।
(सु.) अस्यैव दोषान्तरमाह-तत्तो इति, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकता-अजभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, बोधिर्यत्र सुदुर्लभः-सकलसम्पन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह च प्राप्नोत्येलमूकताम् इति वाच्ये असकृद्भावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति ।।५.२.४८।।
एयं च दोसं दह्णं, नायपुत्तेण भासियं । अणुमायं पि मेहावी, मायामोसं विवज्जए ।।५.२.४९ ।।
(ति.) प्रकृतमुपसंहरंति-ज्ञातपुत्रेण-श्रीमहावीरेण भाषितम् । अणुमात्रमपिस्तोकमपि । मेधावी-साधुः । मायामृषावादम्-अनन्तरोक्तम् । विवर्जयेत् ।।५.२.४९ ।।
(स.) अथ प्रकृतस्योपसंहारमाह-एअंइति मेधावी मर्यादावर्ती साधुरेनं पूर्वोक्तं दोषं सत्यपि श्रामण्ये किल्बिष-देवत्वप्राप्तिरूपं दृष्ट्वा मायामृषावादं पूर्वोक्तं विवर्जयेत् परित्यजेत्, किम्भूतं दोषम् ? आगमतो ज्ञातपुत्रेण भगवता वर्धमानस्वामिना भाषितमुक्तं, किम्भूतं मायामृषावादं ? अणुमात्रमपि स्तोकमात्रमपि, किं पुनः प्रभूतम ? ||४९।।
१. बधिरश्चासौ मूकः १० टि. ||