________________
पञ्चमम् अध्ययनम्
१६५
प्रेक्षत इत्येवंशीलो यः स गुणप्रेक्षी, तथा पुनः किंभूतः ? अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन विवर्जकस्त्यागी. ।।४४।।
(सु.) एवं तु, [इति] एवं तु-उक्तेन प्रकारेण स-साधुर्गुणप्रेक्षी-गुणान्-अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा अगुणानां च-प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्या विवर्जकः-त्यागी, तादृशः-शुद्धवृत्तो मरणान्तेऽपि-मरण(चरम)कालेऽपि आराधयति संवरं-चारित्रं, सदैव कुशलबुद्ध्या तद्बीजपोषणादिति ।।५.२.४४ ।।
आयरिए आराहेइ, समणे यावि तारिसे | गिहित्था वि णं पूइंति, जेण जाणंति तारिसं ||५.२.४५।। (ति.) एषोऽपि प्राक्तन [५.२.४० तम गाथायाः] व्यत्ययेन व्याख्येयः ||५.२.४५।।
(स.) पुनः स किं करोति तं च गृहस्थाः किं कुर्वन्ति ? - इत्याह-आय...इतितादृशो गुणवान् साधुराचार्यानाराधयति शुद्धभावत्वात्, अपि पुनः श्रमणानाराधयति शुद्धभावत्वादेव, तथा गृहस्था अप्येनं पूजयन्ति, कथं ? येन कारणेन ते जानन्ति तादृशं शुद्धं धर्मम् ।।४५।।
(सु.) आयरियए'इति, आचार्यान् आराधयति, शुद्धभावत्वात् । श्रमणांश्चापि तादृशः समाराधयति, शुद्धभावत्वादेव, गृहस्था अप्येनं-शुद्धवृत्तं पूजयन्ति, किमिति ? येन जानन्ति तादृशं-शुद्धवृत्तमिति ।।५.२.४५।।
तवतेणे वयतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुब्बई देवकिब्विसं ।।५.२.४६ ।। (ति.) तपःस्तेनो, वास्तेनो, रूपस्तेनो, यो नरः आचारभावस्तेनः । कुरुते देवकिल्बिषम्-किल्बिषदेवत्वमित्यर्थः । तत्र तपस्तेनः-क्षपकवत् कृशः कश्चित् केनचित् पृष्टः क्षपकस्त्वम् ? स स्वपूजार्थं प्राह-अहम् । अथवा साधवः क्षपका एव, तूष्णीं वा स्तः । वास्तेनः-तत्र त्वं धर्ममाख्य ? इत्यायुक्तो वक्ति । एवम् । रूपस्तेनः-त्वद्रूपं ममाग्रेऽमुकेन श्लाघितम्, इत्युक्तः स्माह । एवम् । आचारस्तेनः-सदाचारो भवान् श्रूयते ? इत्युक्तः स्माह । सदाचारास्तपोधनाः । भावस्तेन:-शुभभावो भवान् भव्यैरभिधीयते? इत्युक्तो वक्ति । एवम् ।।५.२.४६ ।।