________________
१६४
दशवैकालिकं-टीकात्रिकयुतम् घृतादिकं, न केवलमेतत् करोति अपि तु मद्य-प्रमादविरतो, "नास्ति क्लिष्टसत्त्वानामकृत्यम्''इत्येवं प्रतिषेधः । तपस्वी-साधुः अत्युत्कर्षः-अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ।।५.२.४२ ।।
तस्स पस्सह कल्लाणं, अणेगसाहुपूइयं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ।।५.२.४३।।
(ति.) तस्य-ईदृग्गुणवतः साधोः पश्यतः । कल्याणहेतुत्वात् कल्याणम् । संयमस्तम् अनेकैः साधुभिः पूजितम्-आराधितम् । विपुलम्-मोक्षसुखावहत्वात् । अर्थः-तत्त्वतः कर्मनिर्जररूपस्तेन संयुक्तः । संयमस्तदासेविनं कर्मनिर्जराया दर्शनात् कीर्तयिष्ये । श्रुणुत मे कथयत इति गुरूक्तिः ।।५.२.४३ ।।।
(स.) एवंभूतस्य तस्य किं स्यात् ? - इत्याह-तस्स'इति तस्य साधोरित्थंभूतस्य यूयं कल्याणं गुणानां संपद्रूपमर्थात् संयमं पश्यत ? किंभूतं कल्याणं ? अनेकैः साधुभिः पूजितं, कोऽर्थः ! सेवितमाचरितं, पुनः किंभूतं कल्याणं ? विपुलं विस्तीर्ण विपुलमोक्षावहत्वात्, पुनः किंभूतं कल्याणं ! अर्थसंयुक्तं तुच्छतादिपरिहारेण निरुपमसुखरूपं. कथं ? मोक्षसाधकत्वात्, यूयं श्रुणुत मम कथयत इति शेषः ||४३।।
(सु.) तस्स'इति, तस्येत्थंभूतस्य, पश्यत कल्याणं-गुणसम्पद्रूपं संयमम् । किं विशिष्टमित्याह-अनेकसाधुपूजितं पूजितमिति-सेवितमाचरितं, विपुलं-विस्तीर्ण विपुलमोक्षावहत्वात् । अर्थसंयुक्तं-तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात्, कीर्त्तयिष्ये अहं श्रुणुत मे-ममेति ।।५.२.४३।।
एवं तु गुणप्पेही, अगुणाणं विवज्जओ । तारिसो मरणंते वि, आराहेइ संवरं ।।५.२.४४।। (ति.) प्राक्तन [५.२.४१, गाथायाः] व्यत्ययेनास्य व्याख्या ।।५.२.४४ ।।
(स.) एवंविधश्च स साधुः किं करोतीत्यत आह-एवं इति-एवं तूक्तप्रकारेण स साधुस्तादृशः सन् शुद्धाचारः सन्, मरणान्तेऽपि चरमकालेऽपि, संवरं चारित्रमाराधयति सदैव कुशलबुद्ध्या तद्बीजपोषणात्, किंभूतः साधुः ? गुणप्रेक्षी गुणानप्रमादादीन्