________________
पञ्चमम् अध्ययनम्
१६३
(सु.) तथा-आयरिए 'इति आचार्यान् नाराधयत्यशुद्धभावत्वात् श्रमणांश्चापि तादृशो नाराधयत्यशुद्धभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ति - कुत्सन्ति । किमिति ?, येन जानन्ति तादृशं-दुष्टशीलमिति ।।५.२.४० । ।
एवं तु अगुणप्पेही, गुणाणं च विवज्जओ (ए) । तारिस मरणंते वि, न आराहेइ संवरं ।।५.२.४१ ।।
(ति.) एवम् उक्तविधिना । अगुणप्रेक्षी - अगुणदर्शी अगुणशीलश्च । गुणानां चअप्रमादादीनां स्वकीयानामनासेवनेन परगतानां प्रद्वेषेण विवर्जकः । तादृशः- क्लिष्टचित्तः मरणान्तेऽपि नाराधयति संवरम् ।। ५.२.४१ ।।
(स.) पुनस्तस्य किं स्यात् ? इत्याह - एवं इति - एवमुक्तप्रकारेणागुणप्रेक्षी अगुणान् प्रेक्षत इत्येवंशीलः, पुनः किम्भूतः गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषकरणेन विवर्जकस्त्यागी, तादृशः क्लिष्टचित्तपरिणामो मरणान्तेऽपि नाराधयति संवरं चरित्रम् ।।४१।।
(सु.) एवं तु इति, एवं तु उक्तेन प्रकारेण अगुणप्रेक्षी-अगुणान्-प्रमादादीन् प्रेक्ष तच्छीलश्च य इत्यर्थः । तथा गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण विवर्जकः- त्यागी, तादृशः - क्लिष्टचित्तो मरणान्तेऽपि नाराधयति संवरंचारित्रमिति गाथार्थः ।।५.२.४१ ।।
तवं कुव्वइ मेहावी, पणीयं वज्जए रसं ।
मज्जपमायविरओ, तवस्सी अइउक्कसो ।।५.२.४२ ।।
(ति.) एतद् विपरीतमाह - स्पष्टः । नवरम् । मज्जप्पमायविरमो - मद्यादिप्रमादविरतः । अइउक्कसो-अहं तपस्वीत्युत्कर्षरहित इत्यर्थः ।।५.२.४२।।
૧૨
(स.) यतश्चैवम् ? - अतस्तद्दोषपरिहारेण साधुः कीदृशः स्यात् ? तद् आहतवं इति मेधावी मर्यादावर्ती साधुस्तपः करोति, प्रणीतं स्निग्धं रसं घृतादिं वर्जयति, न केवलमेतत् करोति, अपि तु मद्यविरतो भवति, किंभूतो मेधावी ? तपस्वी, किंभूत ? अत्युत्कर्षोऽहं तपस्वीत्युत्कर्षरहितः ।।४२।।
पुनः
(सु.) तवं इति, तपः प्रकरोति मेधावी मर्यादावर्त्ती, प्रणीतं -स्निग्धं वर्जयति रसं -