________________
१६२
दशवैकालिकं-टीकात्रिकयुतम् चारित्रपरिणामबाधनेन परमार्थतः ।।३८ ।। ___(सु.) वड्ढई' इति, वर्धते शौण्डिका-तदत्यन्ताभिष्वङ्गरूपा तस्य, मायामृषावादं चेत्येकवद्भावः, प्रत्युपलब्धापलापेन वर्द्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुरनुबन्धदोषात्, तथाऽयशश्च स्वपक्षपरपक्षयोः, तथा अतृप्तिदुःखं अनिर्वाणं, तदलाभे सततं चासाधुता लोके व्यवहारतश्चरणपरिणामबाधनेन परमार्थत इति ।।५.२.३८ ।। निच्चुबिग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंते वि, न आराहेइ संवरं ।।५.२.३९।।
(ति.) स्पष्टः | नवरम् । तादृशः-किलष्टचित्तः । संवरम्-प्राणातिपातादिपञ्चाश्रवनिरोधरूपम् ।।५.२.३९ ।।
(स.) पुनस्तस्य किं स्यात् ? - इत्याह-निच्चु...इति-स इत्थंभूतो भिक्षुर्नित्योद्विग्नः सदाऽप्रशान्तः स्यात्. यथा स्तेनश्चौरः, कैः ? आत्मकर्मभिः स्वकीयदुश्चरितैः, किम्भूतो भिक्षुः ? दुर्मतिदुर्बुद्धिः, तादृशः सन् सलिष्टचित्तो मरणान्तेऽपि संवरं चारित्रं नाराधयति सदैवाकुशलबुद्ध्या तस्य संवरबीजाभावात्. ।।३९।।
(सु.) निच्चुव्विगो इति, स इत्थंभूतो नित्योद्विग्नः-सदा अप्रशान्तो यथा स्तेनःचौरः, आत्मकर्मभिः-स्वदुश्चरितैः दुर्मतिः-दुर्बुद्धिस्तादृशः-क्लिष्टचित्तो(सत्त्वो) मरणान्तेऽपि-चरमकालेऽपि नाराधयति संवरं-चारित्रं, सदैवाकुशलबुद्ध्या तद्बीजाभावादिति ।।५.२.३९।।
आयरिए नाराहेइ, समणे आवि तारिसो । गिहत्था वि णं गरिहंति, जेणं जाणंति तारिसं ।।५.२.४०।। (ति.) तथा स्पष्टः । नवरम् । नादृशः-दुराचारः । णमिति-तम् ।।५.२.४० ।।
(स.) पुनस्तस्य किं स्यात् ? इत्याह-आय...इति-तादृशो भिक्षुराचार्यान् नाराधयत्यशुद्धभावत्वात्, तथा श्रमणानपि नाराधयत्यशुद्धभावादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ति कुत्सन्ति, किमिति येन कारणेन जानन्ति तादृशं दुष्टशीलमिति.
||४०।।