________________
१६१
पञ्चमम् अध्ययनम् व्याचक्षत इति ।।५.२.३६ ।।
पियाइ एग्गओ तेणो, न मे कोइ वियाणइ । तस्स पस्सह दोसाइं, नियडिं च सुणेह मे ।।५.२.३७।।
(ति.) तत्पाने दोषानाह-पिबति । एक:-अद्वितीयः, धर्मसहायरहितः । न मां कश्चिज्जानाति इति धिया । स्तेनः-चौरोऽसौ भगवददत्तग्रहणात् । तस्य पश्यत दोषान्-ऐहिकानामुष्मिकांश्च । निकृतिं च-मायाम् । शृणुत मे-मम कथयत इति गुरूक्तिः ।।५.२.३७।।
(स.) सुरादिपानेऽव दोषमाह-पिया....इति-एको धर्मसहायरहित एकान्तस्थितो वा, कोऽप्यधर्मी पिबति, किम्भूत एकः ? चौरः, भगवता यन्न दत्तं तस्य ग्रहणादन्योपदेशयाचनाद् वा, पुनः किं कुर्वन् ? न मां कोऽपि जानातीति विभावयन्निति शेषः, तस्येत्थंभूतस्य भो ! शिष्या ! यूयं दोषानिहलोकसम्बधिनः परलोकसम्बन्धिनश्च पश्यत ? च पुनर्निकृतिं मायारूपां श्रुणुत मम कथयत इति शेषः. ।।५.२.३७।।। ___ (सु.) अत्रैव दोषमाह-पियए'इति, पिबत्येको-धर्मसहायविप्रमुक्त एकान्तस्थितो वा स्तेनः-चौरोऽसौ भगवददत्तग्रहणात् अन्योपदेशयाचनाद् वा, न मां कश्चिज्जानाति विभावयन्, तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृतिं च-मायारूपां श्रुणुत ममेति ।।५.२.३७।।
वड्डई सुंडिया तस्स, मायामोसं च भिक्खुणो । अयसो य अनिव्वाणं, सययं च असाहुया ।।५.२.३८।।
(ति.) किञ्च-वर्धते । शौण्डिता(का) तस्य-शुण्डापिपासा । मायया मृषावादो मायामृषा च-पीतापलापेन भिक्षोः । अयशश्च सर्वत्र । तदलाभे च अनिर्वाणम् । सततं चासाधुता-अत्रामुत्र च संयमात्मविराधना ।।५.२.३८ ।।।
(स.) पुनस्तस्य किं भवति ? - तदाह-वड्ढई'इति-तस्य भिक्षोः शौण्डिकात्यन्ताभिष्वङ्गरूपा वर्धते, पुनर्मायामृषावादं च माया च मृषावादश्च, तस्य वर्धते, प्रत्युपलब्धस्यापलापेनेदं च भवपरम्पराहेतुरनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोर्मध्ये तथा तस्यालाभेऽनिर्वाणमतृप्तिः दुःखं सततं वर्धते, च पुनरसाधुता वर्धते, लोके व्यवहारतः