________________
दशवैकालिकं-टीकात्रिकयुतम्
१६०
सम्मानश्च वस्त्रपात्रादिलाभनिमित्तः, तयोः कामुको वाञ्छकः ।। ३५ ।।
(सु.) एतदेव किमर्थमेवं कुर्यात् ? इत्याह- पूयणट्ठा’इति, पूजार्थमेवं कुर्वतः स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति, यशस्कामी - अहो अयमिति, प्रवादार्थी वा, मानसन्मानकामकः एवं कुर्यात् । तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानो, वस्त्रपात्रादिलाभनिमित्तश्च सन्मान इति । स चैवम्भूतो बहु- अतिप्रचुरं प्रधानसंक्लेशयोगात् प्रसूते-निर्वर्त्तयति पापं, तद्गुरुत्वादेव सम्यगनालोचयन् मायाशल्यं च-भावशल्यं च करोतीति ।।५.२.३५ । ।
सुरं वा मेरगं वा वि, अन्नं वा मज्जगं रसं ।
संसक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ।।५.२.३६ ।।
(ति.) प्रतिषेधान्तरमाह - सुरां वा पिष्टादिनिष्पन्नाम् । मेरकम् - मद्यविशेषम् । अन्यं वा मद्यगम्-मद्यगामिनम् । रसम् - इक्षुरसादिकं धातुकीपुष्पभावितम् । सदा परित्यागे केवल्यादयः साक्षिणो यस्य तत् ससाक्षि । न पिबेद् भिक्षुःअनेनात्यन्तिकस्तत्प्रतिषेधः । यशस्करत्वेनोपचारात् संयमो यशः तत्सम्यगात्मनो रक्षन् ।।५.२.३६।।
(स.) पुनः प्रतिषेधान्तरमाह - सुरं ' इति - भिक्षुः सुरादि न पिबेत्, तत्र सुरां वा पिष्टादिनिष्पन्नां, मेरकं वापि प्रसन्नाख्यम्, अन्यं वा सुराप्रायोग्यद्रव्यनिष्पन्नं मद्यसम्बन्धिनं रसं सीध्वादिरूपं न पिबेत् यतः कीदृक् तत् ?- ससाक्षि सदा परित्यागे साक्षिणः केवल्यादयो यस्य तत् ससाक्षि केवलिप्रतिषिद्धमित्यर्थः, अनेन सर्वथा प्रतिषेध उक्तः, सदा साक्षिभावात्, किमिति न पिबेदित्याह - स भिक्षुः किं कुर्वन् ? आत्मनो यशःसंयमं संरक्षन्, अन्ये त्वाचार्या एतत्सूत्रं ग्लानापवादविषयमल्पसागारिकविधानेन व्याचक्षते. ।।५.२.३६ ।।
(सु.) प्रतिषेधान्तरमाह - सुरं वाति, सुरां वा पिष्टादिनिष्पन्नां, मेरकं चापिप्रसन्नाख्यां, सुराप्रायोग्य - द्रव्यनिष्पन्नमन्यं वा, मद्यरसं-सीध्वादिरूपं, ससाक्षिकंसदापरित्याग-साक्षिकेवलिप्रतिषिद्धं न पिबेत् भिक्षुः अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेदित्याह - यशः संरक्षन्नात्मनः, यशःशब्देन संयमोऽभिधीयते । अन्ये तु ग्लानापवादविषयं एतत् सूत्रमल्पसागारिकविधानेन