________________
१५७
पञ्चमम् अध्ययनम् श्रामण्यं यतित्वमनुतिष्ठत्यखण्डम् ।।३०।।
(सु.) जे न वंदे इति, यो न वन्दते कश्चिद् गृहस्थादिर्न से तस्मै कुप्येत् । तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षेत् । एवं-उक्तेन प्रकारेण अन्वेषमाणस्यभगवदाज्ञामनुपालयतः, श्रामण्यमनुतिष्ठति अखण्डितमिति सूत्रार्थः ।।५.२.३० ।।
सिया एग्गयओ लद्ध, लोभेणं विनिगूहए । मामेयं दाइयं संतं, दतॄणं सयमायए ।।५.२.३१।।
(ति.) स्वपक्षस्तेयप्रतिषेधमाह-स्यात् कदाचित् । एककः-जघन्यसाधुः । लब्धम्उत्कृष्टं भोज्यम् । लोभेन विनिगूहते-अहमेवेदं भोक्ष्ये, इत्यान्तप्रान्तेन पिधत्ते । मा ममेदम्-भोज्यम् । दर्शितं सन् | द्रष्टवा-आचार्यादिः । स्वयमाददीतेति ।।५.२.३१।।
(स.) अथ स्वपक्षस्तेयस्य प्रतिषेधमाह-सिया'इति-स्यात् कदाचित् साधुरेकः कश्चिदत्यन्तजघन्यो लब्धमुत्कृष्टमाहारं लोभेनाहारगृद्ध्या विनिगूहते अन्तःप्रान्तादिनाहारेण तमुत्कृष्टमाहारमाच्छादयेत्. कथम्? अहमेव भोक्ष्य इति, किमित्यत आह-मा ममेदं भोजनजातं दर्शितं सद्वीक्ष्याचार्यादिः स्वयमादद्यादात्मनैव गृह्णीयात् ।।३१।।
(सु.) स्वपक्षस्तेयप्रतिषेधमाह-सिया'इति, स्यात्-कदाचित् एककः-कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं लोभेन-अभिष्वङ्गेण विनिगूहते-अहमेव भोक्ष्य इत्यन्तप्रान्तादिना आच्छादयति । किमित्यत आह-मा मम इदं भोजनजातं दर्शितं सत्, दृष्ट्वा आचार्यादिः स्वयमादद्यादात्मनैव गृह्णीयादिति ।।५.२.३१।।
अत्तट्ठागरुओ लुद्धो, बहुं पावं पकुव्वई । दुत्तोसओ य सो होइ, निव्वाणं च न गच्छई ।।५.२.३२।।
(ति.) अस्य दोषमाह-आत्मार्थ एव गुरुर्यस्य स आत्मार्थगुरुरुदरम्भरिर्जघन्यो न प्रायोग्यं गुर्वादि योग्यं दर्शयति । स बहु पापं प्रकरोति । दुस्तोषश्च स भवति-सदा स्वादिष्टालाभात्। अत्र निर्वाणम्-सुखं, परत्र निर्वाणम्-मोक्षम् । न गच्छति-गृह्या प्रबलमोहत्वेन गुर्वभक्त्या अनन्तसंसारित्वात् ।।५.२.३२।।
१. 'लढुं' मुद्रितमन्यत्र । २. दृष्ट्वेति पाठान्तरम् ।