________________
१५८
दशवैकालिकं-टीकात्रिकयुतम् (स.) अस्य साधोर्दोषमाह-अत्त...इति-स साधुरेवं पूर्वोक्तभोजने बहु पापकर्म करोति, किंभूतः साधुः ? 'अत्तट्ठागुरुओ' आत्मनोऽर्थ एव जघन्यो, गुरुः पापप्रधानो यस्य स आत्मार्थगुरुकः, पुनः किम्भूतः स साधुः ? लुब्धः क्षुद्रः सन्, अयं परलोकदोष उक्तः, अथेहलोकदोषमाह-पुनर्दुस्तोषश्च भवति येन केनचिदाहारेणास्य क्षुद्रस्य तुष्टिः कर्तुं न शक्यते, अत एव हेतोः स साधुर्निर्वाणं तु मोक्षं न गच्छति, इह लोके च धृतिं न लभते, अनन्तसांसारिकत्वाद् वा मोक्षं न गच्छति. ।।३२।। ।
(सु.) अस्य दोषमाह-अत्तट्ठा'इति, आत्मार्थ एव [जघन्यो] गुरु:- [पाप] प्रधानो यस्य स आत्मार्थगुरुः, लुब्धः सन् क्षुद्रभोजने बहु-प्रभूतं पापं प्रकरोति-मायया दारिद्र्यकर्मेत्यर्थः, अयं परलोकदोषः । इहलोकदोषमाह-दुस्तोषश्च भवति-येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते । अत एव निर्वाणं च न गच्छति, इहलोके च धृतिं न लभते, अनन्तसंसारिकत्वाद् वा मोक्षं न गच्छतीति ।।५.२.३२।।
सिया एगयओ ल , विविहं पाणभोयणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ||५.२.३३।।
(ति.) एष प्रत्यक्षापहारि परोक्षापहारिण]माह-स्यादेककः-भिक्षागतः । प्राग्वद् लब्ध्वा । विविधं पानं भोजनम् । भद्रकं भद्रकम्-घृतपूर्णादि बहिरेव क्वापि भुक्त्वा । विवर्णं विरसम्-शीतौदनादि । वसतावाहरेत्-आनयेत् ।।५.२.३३।।
(स.) एवं च यः प्रत्यक्षमपहरति स प्रत्यक्षहर उक्तः, अधुना यः परोक्षमपहरति स परोक्षहर उच्यते-सिया'इति-एकः कोऽपि लुब्धः सन् स्यात् कदाचिद् विविधमनेकप्रकारं पानभोजनं, तत्र भिक्षाचर्यायां गत एव भद्रकं भद्रकं भव्यं घृतपूरादिकं भुक्त्वा बहिरेव क्वापि, यद् विवर्णमम्लखलादि विरसं विगतरसं शीतौदनाद्याहरेत् ।।३३।।
(सु.) एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यतेसिया'इति, स्यादेको लब्ध्वेति पूर्ववत्, विविधं अनेकप्रकारं पानभोजनं, तत्र भिक्षाचर्यागत एव भद्रकं भद्रकं-घृतपूर्णादि भुक्त्वा विवर्ण-विगतवर्णं आम्लखलादि, विरसं-विगतरसंशीतौदनादि आहरेद्-आनयेदिति ।।५.२.३३।।