________________
१५६
दशवैकालिकं-टीकात्रिकयुतम् इत्यियं पुरिसं वा वि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अन्नं फरुसं वए ||५.२.२९।।
(ति.) किञ्च-स्त्रियं पुरुषं । वापि-अपिशब्दान्नपुंसकं वा डहरं वा महल्लकम्बालं वा वृद्धं वा, वाशब्दान्मध्यमम् । वन्दमानं न याचेत । अन्नाद्यलाभे याचितादाने । नो एनं परुषं वदेत्-वृथा ते वन्दनमित्यादीति ।।५.२.२९ ।।
(स.) इत्थियं'इति पुनः किंच साधुः स्त्रियं वा पुरुषं वा, अपिशब्दान्नपुंसकं वा, डहरं तरुणं वा, महल्लकं वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति ज्ञात्वा न याचेत, कथं ? याचने तेषां विपरिणामो भवति, यतीनामुपरि भावभङ्गो भवति, अन्नादीनामभावे याचितस्यादाने न चैनं परुषं कठोरं ब्रूयात्, किं परुषं ? वृथा ते वन्दनं, यदि न ददासीत्यादि, पाठान्तरं वा-वन्दमानो न याचेत, लल्लिव्याकरणेन, शेषं पूर्ववत्. ।।२९।।
(सु.) किंच-इत्थिय'इति, स्त्रियं वा पुरुषं वा, अपिशब्दात् तथाविधं नपुंसकं वा, डहरं-तरुणं, महल्लकं वा-वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचयेत्, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने, न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादिरिति । पाठान्तरं वा-'वन्दमानो न याचेत लल्लिव्याकरणेन' शेषं पूर्ववदिति ।।५.२.२९ ।।
जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे | एवमन्नेसमाणस्स, सामन्नमणुचिट्ठई ।।५.२.३०।।
(ति.) तथा-यो-गृही । न वन्दते । से-तस्य | न कुप्येद् । वन्दितः-केनचिन्नृपादिना । न समुत्कर्षेत्-नोत्कर्षं कुर्यात् । एवमन्वेषमाणस्य-जिनाज्ञां पालयतः । श्रामण्यम्शुद्धम् । अवतिष्ठते ।।५.२.३०।। .
(स.) जे इति-तथा पुनः किम्भूतः ? यः साधुर्यो गृहस्थादिकोऽपि न वन्दते, तदा न कुप्येत्, नावन्दमानस्योपरि कोपं कुर्यात्, तथा केनापि राजादिना यदि वन्दितस्तदा न समुत्कर्षेन्नोत्कर्ष कुर्यात्, एवमुक्तप्रकारद्वयेनान्वेषमाणस्य भगवदाज्ञयानुपालयतः