________________
१५५
पञ्चमम् अध्ययनम् पक्षपातीति ।।५.२.२६ ।।
बहुं परघरे अत्थि, विविहं खाइम-साइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ।।५.२.२७।। (ति.) एवं च भावयेत्-पूर्वार्द्धं स्पष्टम् । न तस्मिन्नाऽददाने । पण्डितः-साधुः । कुप्येत् । इच्छयास्वेच्छया। परः-गृही । दद्यान्न वेति ।।५.२.२७ ।।
(स.) तत एवं च परिभावयेत्, तद् आह-बहुं'इति-परगृहेऽसंयतादिगृहे बहु प्रमाणतः प्रभूतमस्ति, किं तत् ? खाद्यं स्वाद्यं च, किम्भूतं ? विविधमनेकप्रकारम् उपलक्षणत्वादशनादिकमपि प्रभूतमस्ति, तत्सर्वं सदस्ति, परं न ददाति, तदा पण्डितो न कुप्येन्न रोष कुर्याद अदातुरुपरि, किन्त्वेवं चिन्तयेत् यदीच्छा स्यात् तदा परो दद्यात्, न स्यात् तदा न दद्यात्, परमन्यत् किमपि न चिन्तयेत्, कुतः ? सामायिकबाधात्. ।।२७।।
(सु.) एवं च परिभावयेत्-बहु'इति, बहु-प्रमाणतः प्रभूतं परगृहे-असंयतादिगृहेऽस्ति विविधं-अनेकप्रकारं खाद्यं स्वाद्यं, एतच्चाशनाद्युपलक्षणं, न तत्र पण्डितः कुप्येत्सदपि न ददातीति न रोषं कुर्यात्, किंतु-इच्छया दद्यात् परो न वेति, इच्छा परस्य, न तत्रान्यत् किञ्चिदपि चिन्तयेत्, सामायिकबाधनादिति ।।५.२.२७।।
सयणा-ऽऽसण-वत्थं भत्तं पाणं व संजए । अदितस्स न कुप्पिज्जा, पच्चक्खे वि अ दीसओ ।।५.२.२८।।
(ति.) एतदेव सामान्येनाह-पूर्वार्धं स्पष्टम् । अददानस्य-गृहिणो । न कुप्येत् । प्रत्यक्षेऽपि दृश्यमाने-शयनादौ ।।५.२.२८ ।।
(स.) एतदेव विशेषेणाह-सयण...इति-संयतः शयनमासनं वस्त्रं भक्तं पानकं वाऽददतस्तत्स्वामिनो न कुप्येददातुरुपरि न कोपं कुर्यात्, क्व सति ? तत्स्वामिनः शयनासनादौ प्रत्यक्षेऽपि च दृश्यमाने. ।।२८।।
(सु.) एतदेव विशेषेणाह-सयणा...इति, शयना-ऽऽसन-वस्त्रं चेत्येकवद्भावः । भक्तं पानकं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति ।।५.२.२८।।