________________
१५४
दशवैकालिकं-टीकात्रिकयुतम् नीचम्-अनाढ्यकुलम् । अतिक्रम्य-उल्लङ्घ्य । उच्छ्रितम्-आढ्यकुलम् । नाभु(भि)धारयेत्-प्रधानाशनादिलाभलोभेन, धातूनामनेकार्थत्वात् नाभिगच्छेत् ।।५.२.२५ ।।
(स.) अथ गोचरणविधिमाह-समु...इति साधुः समुदानं शुद्धं मैक्ष्यं समाश्रित्य चरेद् गच्छेत्, कुत्र ?-इत्याह-कुलमुच्चावचं परं सदा अगर्हितत्वे सति, उच्चं प्रभूतधनापेक्षया प्रधानम्, अवचं तुच्छधनापेक्षयाप्रधानं, यथा परिपाट्येव चरेत् सदा सर्वकालं, परं नीचं कुलमतिक्रम्योल्लङ्घ्य विभवापेक्षया प्रभूततरलाभार्थमुत्सृतमृद्धिमत्कुलं नाभिधारयेन्न निषीदेन्न यायात्, कस्मात्? अभिष्वङ्गलोकलाघवात्. ।।२५।।
(सु.) विधिमाह-समुयाणं...इति, समुदानं भावभैक्ष्यमाश्रित्य चरेत्-गच्छेत् भिक्षुः । क्वेत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथा परिपाट्येव चरेत्-गच्छेत्, सदा-सर्वकालं, नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थं उत्सृतं-ऋद्धिमत् कुलं नाभिधारयेत्-न यायात्, अभिष्वङ्ग-लोकलाघवादिप्रसङ्गादिति ।।५.२.२६ ।।
अदीणो वित्तिमेसिज्जा, न विसीइज्ज पंडिए | अमुच्छिओ भोयणंमि, माइन्ने एसणारए ।।५.२.२६ ।। (ति.) किंवा अदीनः । वृत्तिम्-प्राणवर्तनम् । एषयेत् । अलाभेऽपि न विषीदेत् । पण्डितः-साधुः । लाभेऽपि अमूर्छितो भोजने । मात्राज्ञः-स्वादिष्टमपि भोज्यं नाधिकमाददीत । एषणाशुद्धौ रतः ।।५.२.२६ ।।।
(स.) अथ कीदृशः किं कुर्यात् साधुः ? तद् आह-अदीण इति-पण्डितः साधुवृत्तिं प्राणवर्तनमेषयेत्, परं न विषीदेत्-अलाभे सति न विषादं कुर्यात्, किंभूतः पण्डितः ? अदीनो द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः. पुनः किंभूतः पण्डितः भोजनेऽमूर्छितोऽगृद्धः, पुनः किंभूतः पण्डितः ? लाभे सति मात्राज्ञ आहारमात्रां प्रति, पुनः किंभूतः ? एषणारत उद्गमोत्पादनैषणापक्षपाती. ।।२६।।
(सु.) अदीणो'इति, अदीनो-द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः, वृत्तिं-वर्त्तनं एषयेत्गवेषयेत्, न विषीदेत्-अलाभे सति विषादं न कुर्यात्, पण्डितः-साधुः, अमूर्छितःअगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति, एषणारतः-उद्गमोत्पादनैषणा