________________
पञ्चमम् अध्ययनम्
१५३
(स.) पुनः साधुः प्रार्थयेन्मनसापि न, तदेवाह - कवि... इति - साधुरेतदग्रे वक्ष्यमाणं मनसापि न प्रार्थयेत्, किं तद् ? - आह- कपित्थं कपित्थफलं, मातुलिङ्गं च बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तिकां मूलकन्दचक्कम्, आमामपक्वां, पुनः कीदृशीम् ? अशस्त्रपरिणतां स्वकायशस्त्रादिना अविध्वस्ताम्, अनन्तकायकत्वाद् गुरुत्वख्यापनार्थमुभयं मनसापि न प्रार्थयेत् ।। २३ ।।
(सु.) कविट्ठ' इति, कपित्थं कपित्थफलं, मातुलिङ्गं वा- बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तृकां-मूलकन्दचक्कलीं, आमां-अपक्वामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्तां अनन्तकायिकत्वात् गुरुत्वख्यापनार्थमुभयम् । मनसापि न प्रार्थयेदिति ।।५.२.२३ ।।
तहेव फलमंथूणि बीयमंथूणि जाणिया ।
,
बिभेलगं पियालं वा, आमगं परिवज्जए ।।५.२.२४।।
(ति.) तथैव फलमन्थून्-बदरचूर्णान् । बीजमन्थून् - यवादिचूर्णान् । ज्ञात्वा । बिभीतकम् । पियालम्-राजादनम् । आमकं परिवर्जयेत् ।।५.२.२४।।
(स.) पुनः साधुः किं वर्जयेत् ? तद् आह-तहेव ' इति - तथैव फलमन्थून् बदरचूर्णान्, बीजमन्थून् यवादिचूर्णान् ज्ञात्वा सिद्धान्तवचनात्, तथा बिभीतकं बिभीतकफलं, प्रियालं च प्रियालफलम् एतत्फलमन्थुप्रमुखचतुष्टयमपि आममपरिणतं साधुर्वर्जयेत्. ।।२४।।
(सु.) तहेव' इति, तथैव फलमन्थून् - बदर (रादि ) चूर्णान्, बीजमन्थून् - यवादिचूर्णान् ज्ञात्वा प्रवचनतः, बिभीतकं - बिभीतकफलं, प्रियालं प्रियालफलं च आमं- अपरिणतं परिवर्जयेदित्यर्थः ।।५.२.२४।।
समुयाणं चरे भिक्खू, कुलं उच्चावयं सया ।
नि(नी)यं कुलमइक्कम्म, ऊसढं नाभिधारए ।।५.२.२५।।
(ति.) विधिमाह - समुद आनाः प्राणाः साधूनां यत्र तत् समुदानम् - शुद्धभैक्षम् । आश्रित्य चरेद् । भिक्षुः । कुलं उच्चावचम् - अगर्हितत्वे सति आढ्यानाढ्यम् । सदा ।
१. जाणिय' इति पाठोऽन्यत्र मुद्रितः ।