________________
१४७
पञ्चमम् अध्ययनम्
समणं माहणं वा वि, किविणं वा वणीमगं | उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजए ||५.२.१०।।
(ति.) उक्ता द्रव्ययतना, भावयतनामाह-स्पष्टः | नवरम् । कृपणम्-क्षुद्रभिक्षाचरम्। उप-सामीप्येन, सङ्क्रामन्तम्-गच्छन्तम् ।।५.२.१०।। __ (स.) उक्त द्रव्यविराधना, भावविराधनामाह-समणं'इति-संयतः साधुः श्रमणं निर्ग्रन्थादिरूपं, ब्राह्मणं धिग्जातीयं, कृपणं वा पिण्डोलकं, वनीपकं दरिद्रम्, एतेषां चतुर्णां मध्येऽन्यतममुपसङ्क्रामन्तं सामीप्येन गच्छन्तमागच्छन्तं वा, किमर्थं ? भक्तार्थं पानार्थं वा. ||१०||
(सु.) उक्ता द्रव्ययतना । भावयतनामाह-समणं ति, श्रमणं-निर्ग्रन्थादिरूपं, ब्राह्मणं-धिग्वर्णं, वापि कृपणं वा पिण्डोलकं, वनीपकं-दरिद्रं चतुर्णामन्यतममुपसङ्क्रामन्तंसामीप्येन गच्छन्तं वा गतं वा भक्तार्थं पानार्थं वा संयतः-साधुरिति ।।५.२.१०।।
तमइक्कमित्तु न पविसे, न चिट्टे चक्खुफासउँ । एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए ।।५.२.११।।
(ति.) तान् अतिक्रम्य-उल्लङ्घ्य । न प्रविशेत्, न तिष्ठेत् तेषां चक्षुर्गोचरे । उत्तरार्धं स्पष्टम् ।।५.२.११।।
(स.) उक्तां योजनामग्रिमगाथयाह-तम'इति-संयतः पूर्वगाथायां य उक्तः, तं श्रमणादिकं चतुर्भेदं पूर्वोक्तमति-क्रम्योल्लङ्घ्य न प्रविशेत्, नापि तेभ्यः समुदाने दीयमाने चक्षुर्गोचरे तिष्ठेत्, तर्हि किं कुर्यात् ?- इत्याह-एकान्तमवक्रम्य तत्र तिष्ठेत् संयतः ||११||
(सु.) तमइक्कमित्तु इति श्रमणादिमतिक्रम्योल्लङ्घ्य न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे, कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र तिष्ठेत् संयत इति ।।५.२.११।। वणीमगस्स वा तस्स, दायगस्सुभयस्स वा ।
अप्पत्तियं सिया हुज्जा, लहुत्तं पवयणस्स वा ।।५.२.१२।। १. चक्खुगोयरे इत्यन्यत्र मुद्रितः पाठः [oफासओ] । २. स्पर्श १-५.११ ।।
૧૧