________________
१४८
दशवैकालिकं-टीकात्रिकयुतम् (ति.) तत्र प्रवेशे चैते दोषा-इत्याह-स्पष्टः | नवरम् | अहो ! 'अलौकिकतैषामिति लघुत्वं प्रवचनस्येति ।।५.२.१२ ।।
(स.) अन्यथैते दोषा भवन्ति, तानाह-वणी...इति वनीपकस्य वा तस्य, उपलक्षणत्वात् पूर्वोक्तस्य श्रमणादेश्च दातुर्वा उभयोर्वा, अप्रीतिः कदाचित् स्यात्, का ? अप्रीतिः अहो एते लौकिकव्यवहारस्याऽज्ञातार इत्यादिरूपा, तथा प्रवचनस्य लघुत्वं स्यात्, अन्तरायदोषोऽपि स्यात्. ।।१२।।
(सु.) अन्यथैतदोषा इत्याह-वणीमगस्स'इति, वनीपकस्य वा तस्येत्येतत् श्रमणाद्युपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात्-अहो अलौकिकज्ञता एतेषामिति लघुत्वं प्रवचनस्य वाऽन्तराय-दोषश्चेति तस्मान्नैव कुर्यात् ।।५.२.१२ ।।
पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए । उवसंकमिज्ज भत्तट्ठा, पाणट्ठाए व संजए ।।५.२.१३।। (ति.) तस्मात् तत्र न गच्छेत्, किन्तु [पडिसेहिए इति...] स्पष्टः ।।५.२.१३ ।।
(स.) तस्मादेवं पूर्वोक्तं न कुर्यात्, तर्हि किं कुर्यात् ? इति-आह 'पडिसे'इतिसंयतः साधुः प्रतिषिद्धे वा दत्ते वा, ततः स्थानात् तस्मिन् वनीपकादौ निवर्तिते सति उपसङ्क्रामेद् भक्तार्थं पानार्थं वा. ।।५.२.१३ ।।
(सु.) किन्तु-पडिसेहिए प्रतिषिद्धे वा दत्ते वा ततः स्थानात् तस्मिन् वनीपकादौ निवर्तिते सति उपसङ्क्रामेत् भक्तार्थं पानार्थं वापि संयत इति ।।५.२.१३।।
उप्पलं पउमं वावि, कुमुयं वा मगदंतियं । अन्नं वा पुप्फसच्चित्तं, तं च संलुंचिया दए ।।५.२.१४।। (ति.) परपीडाप्रतिषेधाधिकारादिदं चाह-उप्पलम्-नीलोत्पलम् । पद्मम्-अरविन्दम् । कुमुदम्-कैरवम् । मगदंतियं-मेत्तिका, या बालादिभिर्नखरञ्जनार्थं वर्तित्वा हस्ताङ्गुलीषु दीयते । मल्लिका वावि च किल कलिका ताम् । अन्यद्वा पुष्पं सच्चित्तम् । तच्च संलुञ्च्य-छित्त्वा । भक्तपानादि दद्यात् ।।५.२.१४।। १.०लो. १-५ ।।