________________
१४६
दशवैकालिकं-टीकात्रिकयुतम् . (ति.) गोचराग्रप्रविष्टो न निषीदेत् गृहादौ । स्थित्वा वा तत्र संयतः कथां च - धर्मकथादिकाम् । न (प्रबध्नीयात्-प्रबन्धेन कुर्यात् । अनेषणाद्वेषादिदोषप्रसङ्गात् ।।
(स.) पुनर्गोचरीगतः साधुः किं न कुर्यात् ? - इत्याह-गोअर..इति-साधुर्गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्टः सन् न निषीदेन्नोपविशेत् क्वचिद्देवकुलादौ, यतस्तत्र निषीदने संयमस्य घातो भवति, च पुनः कथां धर्मकथादिरूपां न प्रबध्नीयात्प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणे एकदृष्टान्तकथने चानुज्ञामाह, 'एतदेवाह-किं कृत्वा ? स्थित्वा, कालपरिग्रहेण संयतो यतिरेवं च क्रियमाणे अनेषणा-द्वेषादिदोषप्रसङ्गो भवेत्. ||८||
(सु.) गोयरग्ग'इति, गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्ट इत्यर्थः । न निषीदेत्नोपविशेत्, क्वचित्-गृहदेवकुलादौ संयमोपघातादिप्रसङ्गात्, कथां च-धर्मकथादिरूपां न प्रबध्नीयात्-प्रबन्धेन न कुर्याद्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाहस्थित्वा कालपरिग्रहेण संयत इति, अनेषणा-द्वेषादिदोषप्रसङ्गादिति सूत्रार्थः ।।५.२.८ ।।
अग्गलं फलिहं दारं, कवाडं वा वि संजए । अवलंबिया न चिट्ठिज्जा, गोयरग्गगओ मुणी ।।५.२.९।।
(ति.) उक्ता क्षेत्रयतना, द्रव्ययतनामाह-अर्गलाम्-गोपाटकादौ । परिघम्प्रतोल्यादा । द्वारम्-द्वारशाखारूपम् । कपाटं वापि संयतः । अवलम्ब्य न तिष्ठेत् । गोचराग्रगतो मुनिः । लाघवापत्तेः ।।५.२.९ ।।
(स.) क्षेत्रयतनोक्ता, अथ द्रव्ययतनामाह-अग्गलं'इति-संयतो यतिः, अर्गलां गोपुरकपाटादिसम्बन्धिनी, परिघं कपाटकादिस्थगनं, द्वारं शाखामयं, कपाटं द्वारयन्त्रं वावलम्ब्य न तिष्ठेत्, कथं ? एवमवलम्बने लाघवविराधनादोषो भवेत्. किंभूतः संयतः ? गोचराग्रगतो भिक्षायां प्रविष्टः. ।।५.२.९।।
(सु.) उक्ता क्षेत्रयतना, द्रव्ययतनामाह-अग्गलं'इति, अर्गलां-गोपुरकपाटादिसम्बन्धिनी फलकं-पाटकादिस्थगनं, द्वारं शाखामयं, कपाटं द्वारयन्त्रं, वापि संयतोऽवलम्ब्य न तिष्ठेत् लाघव-विराधनादोषात्। गोचराग्रगतो-भिक्षाप्रविष्टः, संयतो यति-मुनिपर्यायौ, तदुपदेशाधिकाराददुष्टावेवेति ।।५.२.९ ।।
1 अतएवाह-पाठा० ।