________________
पञ्चमम् अध्ययनम्
शोचयेत्, किन्त्वेवं भावयेत् - मया भिक्षा न लब्धा परं वीर्याचारस्त्वाराधितः, वीर्याचारार्थमपि भिक्षाटनं न केवलमाहारार्थमेव, अतो न शोचयेत् अपि तु तप इत्यधिसहेत, अनशनमूनोदरतादि वा तपोऽपि भविष्यतीति सम्यग् विचिन्तयेत्. ।।६।।
(सु.) आह च-सइ'इति सति-विद्यमाने भिक्षाकाले - भिक्षासमये चरेत् भिक्षुः । अन्ये तु व्याचक्षते - स्मृतिकाल एव भिक्षाकालोऽभिधीयते, संस्मर्यन्ते यत्र भिक्षुकाः, स स्मृतिकालः तस्मिन् चरेत्, भिक्षुः- भिक्षार्थं यायात् कुर्यात् पुरुषकारं जङ्घाबले सति वीर्याचारं न लङ्घयेत्, तत्र चालाभे सति भिक्षाया अलाभ इति न च शोचयेत्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं नाहारार्थमेवातो न शोचयेत्, अपि तु तप इत्यधिसहेत, अनशन-न्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग् विचिन्तयेदिति ।।५.२.६ ।।
तहेवुच्चावया पाणा, भत्तट्ठाय समागया ।
तंउज्जयं न गच्छिज्जा, जयमेव परक्कमे ।।५.२.७।।
१४५
(ति) उक्ता कालयतना, क्षेत्रयतनामाह - तथैवोच्चावचाः । प्राणिनः- कार्पटिककाक-श्वानादयः । भक्तार्थम् - भिक्षा बलिप्राभृतिकाहेतोः आगताः । तदृजुकम्तेषामभिमुखम् । तन्मध्ये न गच्छेत्, तदधिकरण - सन्त्रासना-ऽन्तरायदोषात् । किन्तु यतमेव पराक्रमेत् । तेषामुद्वेगमकुर्वन् ।।५.२.७ ।।
(स.) कालयतनोक्ता, अथ क्षेत्रयतनामाह - तहे ... इति - भिक्षुस्तदृजुकं तेषां प्राणिनामभिमुखं संमुखं न गच्छेत्, तेषां केषां ? ये प्राणाः प्राणिनो भक्तार्थं बलिप्राभृतकादिषु समागता भवन्ति, कथं ? तेषां सन्त्रासेनान्तरायदोषो भवेत्, तर्हि किं कुर्यात् ? यतमेव पराक्रामेत्, तेषामुद्वेगमनुत्पादयन्, किंभूताः प्राणिनः, तथैवोच्चा हंसादयः, अवचाः काकादयः, शोभना - ऽशोभनभेदेन नानाप्रकाराः ।। ५.२.७।।
(सु.) उक्ता कालयतना, अधुना क्षेत्रयतनामाह - तहेव ' इति, तथैवोच्चावचाःशोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थं समागताः बलिप्राभृतिकादिष्वागता भवन्ति, तदृजुगं-तेषामभिमुखं न गच्छेत्, तत्सन्त्रासनेनान्तरायाधिकरणादिदोषात्, किन्तु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति ।।५.२.७।।
गोयरग्गपविट्ठो उ, न निसीइज्ज कत्थई |
कहं च न पबन्धिज्जा, चिट्ठित्ता ण व संजए ।।५.२.८ ।।