________________
१४४
दशवैकालिकं-टीकात्रिकयुतम् अकाले चरसि भिक्षो !, प्रमादात् कालं न प्रत्युपेक्षसे । अकालचरणादात्मानं च क्लमयसि । अपूर्णपात्रतया सन्निवेशं च गर्हसे ।।५.२.५।।
(स.) अकाले गोचरीगमने दोषमाह-अकाल'इति कोऽपि साधुरकाले भिक्षार्थं प्रविष्टः, अथाकालचारित्वेन भिक्षा न लब्धा, तदान्येन केनापि साधुना पृष्टः, भो ! भिक्षा त्वया प्राप्ता न वेति ? तदा स वदति, कुतोऽत्र स्थण्डिलसन्निवेशे भिक्षाप्राप्तिः? तदान्यः साधुः पृच्छाकृत्, तमकालचारिणं वदति, हे भिक्षो ! त्वमकाले चरसि, कस्मात्? प्रमादात् स्वाध्यायलोभाद् वा, पुनस्त्वं कालं किमयं भिक्षाकालो न वेत्यादिरूपं न प्रत्युपेक्षसे न जानासि, च पुनस्त्वकालचरणेनात्मानं क्लामयसि दीर्घभ्रमणेनोनोदरताभावेन च, च पुनः सन्निवेशं ग्रामादिकमवर्णवादेन गर्हसि, ततो भगवत आज्ञालोपेन दैन्यप्रतिपत्त्या च तव महान् दोषः सम्भाव्यते, तस्मादकालाटनं न श्रेय इति. ।।५।।
(सु.) अकालचरणे दोषमाह- अकाले'इति अकालचारी कश्चित्साधुरलब्धभैक्षः केनचित्साधुना 'प्राप्ता भिक्षा न वे'त्यभिहितः सन्नेवं ब्रूयात-कुतोऽत्र स्थण्डिलसन्निवेशे भिक्षा ?, स तेनोक्तः-अकाले चरसि भिक्षो ! प्रमादात् स्वाध्यायलोभाद् वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो न वेति, अकालचरणेनात्मानं च क्लामयसि (ग्लपयसि) दीर्घाटन-न्यूनोदरताभावेन, सन्निवेसं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति । यस्मादयं दोषः सम्भाव्यते तस्मादकालाटनं न कुर्यादिति ।।५.२.५।।
सइ काले चरे भिक्खू, कुज्जा पुरिसकारियं । अलाभुत्ति न सोइज्जा, तवृत्ति अहियासए ।।५.२.६ ।।
(ति.) अतोऽकालाटनं न कार्यमित्याह-सति काले-जाते समये । चरेद् भिक्षुः । कुर्यात् पुरुषकारम्-वीर्याचारं न लङ्घयेत् । भिक्षायाः कथञ्चिदलाभे, अलाभ इति न शोचयेत् । किन्तु तपो भविष्यतीत्यधिसहेत ।।५.२.६ ।। __(स.) ततः साधुः किं कुर्यात् ?- इत्याह-सइ...इति-भिक्षुः काले सति भिक्षाकाले जाते सति चरेद् भिक्षार्थं गच्छेत्. अन्ये पुनः 'सइकाले' इत्यस्यैवमर्थं कुर्वन्तिस्मृतिकालो भिक्षाकालो यत्र भिक्षुः स्मर्यते, तस्मिन्, पुनर्भिक्षुः पुरुषकारं जङ्घाबले सति वीर्याचारं न लङ्घयेत्, तत्र चालाभे सति भिक्षाया अप्राप्तौ सत्यां भिक्षुर्न