________________
१४3
पञ्चमम् अध्ययनम्
कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ।।५.२.४।।
(ति.) स चायमित्याह-यो यत्र ग्रामादावुचितो भिक्षाकालः, तेन कारणभूतेन निःक्रामेत् भिक्षुर्भिक्षार्थम् । कालेन - यावता स्वाध्यायवेला स्यात्, तावता प्रतिक्रामेत्निवर्तेत । अकालं च-भिक्षादेः । विवर्ण्य । भिक्षाटनयोग्यः कालोऽपि भिक्षा । ततश्च भिक्षासमये भिक्षां समाचरेत्-कुर्यादित्यर्थः ।।५.२.४ ।।
(स.) तदेव वक्ष्यमाणलक्षणमाह-कालेण'इति-भिक्षुः साधुर्वसतेः सकाशाद् भिक्षायै निष्क्रामेत्, केन ? कालेन करणभूतेन, कः कालः ? यो यस्मिन् ग्रामादौ भिक्षायामुचितः, पुनर्भिक्षुः कालेन तेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेन्निवर्तेत, पुनर्भिक्षुः काले भिक्षावेलायां कालं भिक्षां समाचरेत्, किं कृत्वा ? अकालं च वर्जयित्वा, कोऽकालः ? येन कालेन स्वाध्यायादि न सम्भाव्यते स किलाकालः, स्वाध्यायादीनि हि स्वाध्यायवेलायामेव क्रियन्ते, ।।४।। ___ (सु.) कालेण'इति, यो यस्मिन् ग्रामादावुचितो भिक्षाकालः, तेन करणभूतेन, निष्क्रामेत् भिक्षुव्रती व्रजेत् वसतेर्भिक्षायै, कालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत्-निवर्तेत,
भणियं च-"खित्तं कालो भायणं तिन्नि वि पहुप्पंति हिंडउत्ति अट्ठभंगा",
अकालं च वर्जयित्वा येन स्वाध्यायादि न संभाव्यते, स खल्वकालः तमपास्य, काले कालं समाचरेत्-इति सर्वयोगोपसङ्ग्रहार्थं निगमनं, भिक्षावेलायां भिक्षां समाचरेत्, स्वाध्यादिवेलायां स्वाध्यायादीनीति । उक्तं च
"जोगो जोगो जिणसासणंमि दुक्खक्खया पउंजते । अन्नोन्नमबाहाए असवत्तो होइ कायव्वो ||१।।" (ओघ. नि. गा. २७७) ।।५.२.४ ।। अकाले चरसि भिक्खू, कालं न पडिलेहसि । अप्पाणं च किलामेसि, सन्निवेसं च गरिहसि ।।५.२.५।।
(ति.) अकालचरणे दोषमाह-अकालचारी साधुः केनचित् साधुना भिक्षा प्राप्ता न वा'? इत्युक्तः, सन्ने वदेत्। कुतः तदुःसन्निवेशे भिक्षा ? | सोऽथ तेनोच्यते ।