________________
दशवैकालिकं-टीकात्रिकयुतम्
१४२
वा गोचरे क्षपकग्लानादिः । अयावदर्थम् - अपरिपूर्णम् । छात्रमठादौ भुक्त्वा । यदि तेन भुक्तेन न संस्तरेत् ।।५.२.२।।
(स.) विशेषमाह - सेज्जा' इति यदि क्षपको ग्लानादिर्वा तेन भुक्तेन न संस्तरेन्न यापयितुं समर्थः, तदा द्वितीयवेलामपि गोचरे भक्तपानं गवेषयेदित्यग्रिमगाथायाः सम्बन्धः किंभूतः क्षपकादिः ? 'सेज्जा निसीहियाए समावन्नो' शय्यायां वसतौ नैषेधिक्यां स्वाध्यायभूमौ, अथवा शय्यैवाऽसमञ्जसनिषेधात् - नैषेधिकी, तस्यां समापन्नः सन्, किं कृत्वा ? अयावदर्थं भुक्त्वा, न यावदर्थमपरिसमाप्तमित्यर्थः, णं वाक्यालङ्कारे. ।।५.२.२।।
(सु.) विधिविशेषमाह-‘सेज्जा' इति शय्यायां वसतौ, नैषेधिक्यां-स्वाध्यायभूमौ, शय्यैव वा असमञ्जसनिषेधान्नैषेधिकी तस्यां समापन्नो वा गोचरे, क्षपकादिः, छात्र ( छन्न) मठादौ च अयावदर्थं भुक्त्वा, न यावदर्थं = अपरिसमाप्तमित्यर्थः । णमिति वाक्यालङ्कारे । यदि तेन भुक्तेन, न संस्तरेत् न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वा भवति ।।५.२.२।।
तओ कारणमुप्पन्ने, भत्तपाणं गवेषए ।
विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ।।५.२.३।।
(ति.) ततः कारणे-वेदनादौ । उत्पन्ने भक्तपानं गवेषयेत् । विधिना पूर्वोक्तेनानेन। उत्तरेण वा - वक्ष्यमाणेन ।। ५.२.३ ।।
(स.) यद्येकवारं भुक्तेन न संस्तरेत् तदा किं कुर्यादित्याह - तओ इति -पुष्टालम्बनः साधुः, ततः कारणे वेदनादावुत्पन्ने द्वितीयवारमपि भक्तपानं गवेषयेदन्वेषयेत्, अन्यथा यतीनामेकवारमेव भक्तगवेषणमुक्तं केन ? विधिना, किंभूतेन विधिना, पूर्वोक्तेन, सम्प्राप्ते भिक्षाकाल इत्यादिना च पुनः अनेन वक्ष्यमाणलक्षणेनोत्तरेण. ।।३।।
(सु.) 'तओ'इति ततः कारणे-वेदनादौ उत्पन्ने पुष्टालम्बनः सन् भक्तपानं गवेषयेत्अन्वेषयेत्, अन्यथा सकृद् भुक्तमेव यतीनामिति । विधिना पूर्वोक्तेन "संप्राप्ते भिक्षाकाले" इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति ।।५.२.३।।