________________
[ || पिण्डैषणाध्ययने द्वितीयोद्देशकः ।।)
पडिग्गहं संलिहित्ताणं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए ।।५.२.१।। (ति.) पिण्डैषणायाः प्रथमोद्देशके प्रक्रान्तोपयोगि यन्नोक्तं, तदाह - पतद्ग्रहं पात्रकम् । संलिह्य-प्रदेशिन्या निरवयवं कृत्वा । लेपमादाय-उपजीव्य । संयतः दुर्गन्धं वा सुगन्धि वा सर्वं भुञ्जीत । न छर्दयेत् । अत्रार्धव्यत्ययो युक्तः परं पतद्ग्रहाभिधानं मङ्गलार्थमित्येवमुद्देशकादावुपन्यासः ।।५.२.१ ।।
(स.) अथ पिण्डैषणायाः प्रथमोद्देशे यदुपयोगि नोक्तं, तद् द्वितीयोद्देशके दर्शयन्नाह पडिग्गहं...इति-संयतः साधुर्दुर्गन्धि वा सुगन्धि वा भोजनजातं सर्वं समस्तं भुञ्जीताऽऽश्री(ऽश्नी)यात् परं नोज्ज्ञेत्, अत्र गन्धग्रहणं रसादीनामुपलक्षणं, कुतो नोज्ज्ञेत् ? उच्यते-संयमविराधनाभयात्, किं कृत्वा ? प्रतिग्रहं पात्रं सँल्लिह्य प्रदेशिन्या निरवयवं कृत्वा, कया ? लेपमर्यादया आलेपं सँल्लिह्य. ।।५.२.१।। विशेषमाह
(सु.) पिण्डैषणायाः प्रथमोद्देशक एव प्रक्रान्तोपयोगि यन्नोक्तं-तद द्वितीये समुपदर्शयन्नाह-'पडिग्गहं'इति-प्रतिग्रह-भाजनं, संलिह्य-प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया-अलेपं संलिह्य, संयतः-साधुः, दुर्गन्धि वा सुगन्धि वा भोजनजातं, गन्धग्रहणं रसाधुपलक्षणं, सर्व-निरवशेषं भुञ्जीत-अश्नीयात्, नोज्झेत्-नोत्सृजेत् किञ्चिदपि, मा भूत् संयमविराधनेति । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्थयोः व्यत्ययोपन्यासः । प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थं वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा सर्वं भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति ।।५.२.१ ।।
सि(से)ज्जा निसीहियाए, समावन्नो य गोयरे । अयावयट्ठा भुच्चा णं, जंइ तेण न संथरे ।।५.२.२।। (ति.) विधिविशेषमाह-शय्यायाम्-वसतौ । नैषेधिक्याम्-स्वाध्यायभूमौ । समापन्नो
१. गाथापश्चार्धस्य १० टि. ।।