________________
१४०
दशवैकालिकं-टीकात्रिकयुतम् संदोहं मोक्षफलदायकं जैनधर्म, ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति | निशम्य तद्भाषितम्-अहो एष धर्मः सर्वदुःखमोक्षसाधक इति निश्चित्य, विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो, राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजीवी इति ।।५.१००।।
।। इति पिण्डैषणाध्ययनस्य प्रथमोद्देशकः ५-१ ।।
EN