________________
पञ्चमम् अध्ययनम्
अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागमुपजगाम, दृष्टश्च तेन सरःसमीपवर्त्तिन्यां जाल्यामसौ तुरङ्गमः, प्रत्यभिज्ञातश्चापि सोऽयमश्वः, योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः, ततस्तेन गत्वा स्वमावासं अग्रे गृहपतिपुरुषाणामुक्तम्-यथा मम स्नातुमितः सरसि गतस्य जाल्यां धौतवासो विस्मृतं, ततस्तैः पुमान् प्रहितः तेन च तत्र गतेन दृष्टौऽसो वाजी समानीतश्च कथितो गृहपतये, ततस्तेन समचिन्ति - अपि व्याजेन व्रतिना ममोपकारः कृतः, ततत्कथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्तिं विदधामीति संप्रधार्य गदितोऽसौ परिव्राजकः - भद्र ! व्रज त्वमिदानीं न कृतोपकारिणे भवते तप्तिं विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलं उपजायत इति, एष मुधादायी'इति ।
१३९
·
मुधाजीविन्युदाहरणमुच्यते (दृ० ४) - कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्र-कलत्र-मित्र-पौत्रादीनां समुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे को वा अनिसृष्टं भुङ्क्ते ? ततस्तं परीक्षयामि इति संप्रधार्य पुरुषानामुधिकयादिदेश - यथा राजा मोदकान् प्रयच्छति, समागत्य परिगृह्यतामिति । समाकर्ण्योद्घोषणामुपजग्मुः कार्प्पटिकप्रभृतयोऽर्थिनो जनाः, पृष्टाश्च ते भूभुजा केन भवन्तो जीवन्ति ?, तत्रैकेनोक्तम्-अहं तावत् मुखेन । अपरेण गदितं - अहं पादाभ्यां, अपरेणोक्तम् अहं हस्ताभ्यां अन्येन निवेदितं - अहं लोकानुग्रहणेन, क्षुल्लकसाधुनोक्तम् - अहं मुधिकयेति, ततस्तां नरपतिः पुनरपि जगाद - कथमेवेति । ततः प्रथमो जगाद अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि तेन मुखेन जीवामीति । द्वितीयः प्राह- अहं हि लेखवाहको घटिकामध्ये योजनं लङ्घयामि तेन पादाभ्यां जीवामि । तृतीयः प्राह- अहं लेखकः, अतो हस्ताभ्यां जीवामि । भिक्षुकेणोक्तम् अहं प्रव्रजितः अतो लोकाणामनुग्रहेण निर्वहणं। पुनः क्षुल्लकसाधुनोक्तम् प्रव्रजितोऽहं जन्म-जरा-मरण-रोग-शोक-व्याध्युपद्रवशतोपद्रुतं दारिद्र्य-दौर्भाग्य-कलङ्क-व्रात-कलुषितं, इष्टवियोगानिष्टसंयोगदुःखजनितकृशतरकायं क्षुधा-पिपासा - शीतोष्ण - क्लेशसहस्रसंकुलं दैन्य-चिंता - जरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य, ततो निर्विण्णः प्रतिपद्य, अमुं शारीर-मानसाऽनेकदुःखजलधिविलङ्घनसेतुं सौभाग्य-सौजन्यौदार्योपकारकरणपटिष्टं ज्ञानविज्ञानजनकं विजितसमस्तराजन्य-चक्रराज (राज्य) संपादकं स्वर्गावाससंपादितसुखातिशय
·