________________
१३६
दशवैकालिकं-टीकात्रिकयुतम् कटुकं वाऽऽर्द्रकतीमनादि, कषायं वल्लादि, आम्लं तक्रारनालादि, मधुरं क्षीरमध्वादिकं, लवणं वा प्रकृतिक्षारं तथाविधशाकादि लवणोत्कटं वान्यत्, एतत् तिक्तकादि लब्धंआगमोक्तेन विधिना प्राप्तं अन्यार्थं "अक्षोपाङ्गन्यायेन" परमार्थतो मोक्षार्थं प्रयुक्तम् तत् साधकमिति कृत्वा मधुघृतमिव भुञ्जीत संयतः, न वर्णाद्यर्थं । अथवा मधुघृतमिव "नो वामाओ हणुयाओ दाहिणं हणुयं संचारेज्ज"इति ।।५.९७ ।।
अरसं विरसं वावि, सइयं वा असइयं । उल्लं वा जइ वा सुक्कं, मंथु कुम्मा भोयणं ।।५.१.९८।।
(ति.) किञ्च-अरसम्-संस्काराभावादनाप्तरसम् । विरसम्-पुराणौदनादि । सूचितं वा असूचितम्-कथनाकथनेन दत्तम् । आर्द्र वा-सुकुमारम् । शुष्कं वा-कठिनम् । मन्थु-बदरचूर्णादि । कुल्माषा:-राद्धमाषाः । तद्भोजनम् ।।५.९८ ।।
(स.) पुनः कीदृशमशनादि ? - इत्याह-अरसं'इति-एतादृशं भोजनं वर्तते, तस्याग्रिमगाथया सह योजना कार्या, किंभूतमशनादि भोजनम् ? अरसं रसवर्जितं हिंग्वादिभिरसंस्कृतं, पुनः किंभूतं? विरसं वा विगतरसं पुराणमोदनादि, पुनः किंभूत ? सूचितं व्यञ्जनादियुक्तं, वा अथवा असूचितं व्यञ्जनादिरहितम्, अन्ये त्वेवमर्थं कुर्वन्तिसूचितं कथयित्वा दत्तम्, असूचितमकथयित्वा वा दत्तं, पुनः किंभूतम् ? आर्द्र प्रचुरव्यञ्जनं, यदि वा शुष्कं स्तोकव्यञ्जनं. किंभूतं तद् ?-इत्याह-मन्थु-कुम्मासभोजनं, मन्थु बदरचूर्णादि, कुल्माषाः सिद्धमाषाः, केचिद् वदन्ति कुल्माषा यवमाषाः ||९८ ।।
(सु.) किंच-'अरसं'इति अरसं-अप्राप्तरसं हिङ्ग्वादिभिरसंस्कृतमित्यर्थः, विरसं वा-विगतरसं अतिपुराणौदनादि, सूचितं-व्यञ्जनादियुक्तम् असूचितं वा-तद्रहितं वा, "कथयित्वा अकथयित्वा वा दत्तं"इत्यन्ये | आर्द्र-प्रचुरव्यञ्जनं, यदि वा शुष्कं-स्तोकव्यञ्जनं वा, किं तदित्याह-मन्थुकुल्माषभोजन-मन्थु-बदरचूर्णादि, कुल्माषा:-सिद्धमाषाः, "यवमाषा" इति केचिदिति ।।५.९८ ।।
उप्पन्नं नाइहीलिज्जा, अप्पं वा बहु फासुयं । मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवज्जियं ||५.१.९९ ।।