________________
पञ्चमम् अध्ययनम्
(ति) स्पष्टः । नवरम् आलोके-सप्रकाशे । यतम् - यत्नेन । अपरिशातयन्हस्तमुखाभ्यां सिक्थाद्यनुज्झन् ।।५.९६।।
-
(स.) अथ कोपि नेच्छेत्, तदा किं कुर्यात् ? - इत्याह- अह... इति - अथ को प साधुर्नेच्छेत्, तदा साधुरेकाकी रागादिरहितो भुञ्जीत, कथं भुञ्जीतेत्याह- आलोकभाजने मक्षिकादीनामपोहाय प्रकाशप्रधाने भाजन इत्यर्थः यतः प्रयत्नेन तत्रोपयुक्तः, किं कुर्वन् ? अपरिशातयन्, हस्तमुखाभ्यां कणमात्रमपि न त्यजन् ।।९६।।
·
१३५
(सु.) 'अह कोइ'इति अथ कश्चिन्नेच्छेत् साधुः, ततो भुञ्जीत एकको - रागादिरहित इति । कथं भुञ्जीतेत्यत्राह - आलोके भाजने मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः । साधुः-प्रव्रजितः यतं-प्रयत्नेन तत्रोपयुक्तं, अपरिशाटं - हस्तमुखाभ्यां अनुज्झन्निति ।।५.९६ ।।
तित्तगं व कडुयं व कसायं, अंबिलं व महुरं लवणं वा एयं लद्धमन्नत्थ पउत्तं, महु घयं व भुंजिज्ज संजए ।।५.१.९७ ।।
(ति) भोजनमाश्रित्य विशेषमाह - पूर्वार्द्धं स्पष्टम् - उत्तरार्द्धस्यार्थः । एतल्लब्धम्आगमोक्तविधिना प्राप्तम् । अन्यार्थम्-मोक्षसाधकदेहोपष्टम्भार्थं प्रयुक्तम् । मधुघृतमिवसखण्डाज्यमिव । भुञ्जीत संयतः । कोऽर्थस्तिक्ताद्यनिष्टादौ अद्विष्टः ।।५.९७ ।।
(स.) अथ भोज्यमाश्रित्य विशेषमाह - तित्तगं' इति संयत एवंविधमप्यशनादि मधु-घृतमिव मधु-घृतसमानं मृष्टमिति ज्ञात्वा भुञ्जीत, किंविशिष्टमशनादि ? तिक्तं वा एलुकवालुकादि, कटुकमार्द्रतीमनादि, कषायं वल्लादि, अम्बिलं वा अम्लं तक्रा ऽऽरनालादि, मधुरं क्षीरदध्यादि, लवणं वा प्रकृतिक्षारं, तथाविधशाकादि अन्यद् वा लवणोत्कटम्, एतल्लब्धम्, आगमे उक्तेन विधिना प्राप्तं पुनः कीदृशम् ? अन्यार्थप्रयुक्तम्, अन्यार्थमक्षोपाङ्गन्यायेन देहार्थं परमार्थतो हि तत्साधकमिति कृत्वा मोक्षार्थं प्रयुक्तं, परं न वर्णाद्यर्थम् ।।९७ ।।
(सु.) भोज्यमधिकृत्य विशेषमाह - तित्तगं व' इति - तिक्तकं वा एलुक - वालुङ्कादि,