________________
१३४
दशवैकालिकं-टीकात्रिकयुतम् तदा तस्य वाच्यं- 'हे भगवन् ! देहि केभ्यश्चित्' इत्युक्ते यदि साधुः(? आचार्यः) किं दातव्यं कस्यापि ददाति तदा सुन्दरम् ।।९४।।
(सु.) वीसमंतो'इति विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, हितं-कल्याणप्रापकमर्थं-वक्ष्यमाणलक्षणं, किंविशिष्टः सन् ? भावलाभेन-निर्जरादिनाऽर्थोऽस्येति, लाभार्थिकः, यदि मे-ममानुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन, ततः स्यामहं तारितो भवसमुद्रादिति ।।५.९४।।
साहवो तो चिअत्तेणं, निमंतिज्ज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ||५.१.९५।।
(ति.) ततः साधूंस्ततो मनप्रीत्या निमन्त्रयेत् । यथाक्रमम्-रत्नाधिकक्रमेण । यदि तत्र केचिदिच्छेयुः । ततः तैः सार्धं संविभज्य भुञ्जीत ।।५.९५।।
(स.) अथाचार्यो भणति-त्वमेव देहि, तदा किं कुर्यात् ? इत्याह-साहव...इतिसाधुस्ततो गुरुणानुज्ञातः सन्, यथाक्रमं यथारत्नाधिकतया ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये वदन्ति, साधून् निमन्त्रयेत्, केन ? 'चिअत्तेण' मनःप्रीत्या, ततो यदि केचन धर्मबान्धवा इच्छेयुरङ्गीकुर्युः, तदा तैः सार्धमुचितसंविभाग-दानेन साधुर्भुजीत. ।।९५।।
(सु.) एवं सञ्चित्योचित वेलायां आचार्यमामन्त्रयेत्, यदि गृह्णाति शोभनं, नो चेद्-वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद् दातव्यं, ततो यदि ददाति, सुन्दरं, अथ भणति-'त्वमेव प्रयच्छ' अत्रान्तरे 'साहवो इति-साधूंस्ततो गुर्खनुज्ञातः सन् 'चिअत्तेणं'त्ति मनःप्रणिधानेन निमन्त्रयेत् यथाक्रमं यथारत्नाधिकतया, "ग्रहणौचित्यापेक्षया बालादिक्रमेण'इत्यन्ये । यदि तत्र केचन धर्मबान्धवा इच्छेयुः-अभ्युपगच्छेयुः, ततस्तैः सार्धं भुञ्जीतोचित-संविभागदानेनेति ।।५.९५।।
अह कोइ न इच्छिज्जा, तओ अॅजिज्ज एगओ । आलोए भायणे साहू, जयं अप्परिसाडियं ।।५.१.९६ ।।