________________
पञ्चमम् अध्ययनम्
मुनिः ।।५.९३।।
(स.) ततः किं कुर्यात् ? इत्याह-णमुक्कार...इति-णमुक्कारेति-मुनिः क्षणं स्तोककालं विश्राम्येत्, किं कृत्वा ? नमस्कारेण 'नमो अरिहन्ताणं' इति कथनरूपेण कायोत्सर्गं पारयित्वा, पुनः किं कृत्वा ? जिनसंस्तवं 'लोगस्स उज्जोयगरे' इत्यादिरूपम् कृत्वा, अतो यदि न पूर्वं प्रस्थापितः, ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तं स्वाध्यायमेव कुर्यात्, यावदन्ये आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत्. ।।९३।।
-
१३३
(सु.) ततश्च 'नमोक्कारेणं' इति - नमस्कारेण पारयित्वा 'नमो अरिहंताणं ' इत्यनेन, कृत्वा जिनसंस्तवं "लोगस्स उज्जोगरे" इत्यादिरूपं, अ (त) तो यदि न पूर्वं प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकः, तमेव कुर्यात् यावदन्ये आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् क्षणं- स्तोककालं मुनिरिति ।।५.९३।।
वीसमंतो इमं चिंते, हियमद्वं लाभमट्ठिओ ।
जइ मे अणुग्गहं कुज्जा, साहू हुज्जामि तारिओ ।।५.१.९४ ।।
(ति.) विश्राम्यन्निदं चिन्तयेद् । हितमर्थम् - उत्तरार्द्धेन वक्ष्यमाणम् । लाभार्थिकःकर्मनिर्जरार्थी । यदि मे अनुग्रहं कुर्युः साधवो मदीयानीतप्रासुकपिण्डादानेन ततोऽहं स्यां तारितो भवाब्धेः ।
इति विचिन्त्य भोक्तुमासीनान् गुरून् निमन्त्रयेत् । यदि गृह्णन्ति ततो भव्यं, नो चेद् वाच्यम् । प्रभो ! बालवृद्धेभ्यो दत्त । ददते चेत् ततः सुन्दरम् । अथ भणेत् त्वमेव यच्छ ।।५.९४।।
(स.) पुनः साधुर्विश्रामानन्तरं किं कुर्यात् ? इत्याह- वीस.... ..इति-साधुर्विश्राम्यन्निदं हितं कल्याणप्रापकमर्थं वक्ष्यमाणलक्षणं चिन्तयेत् केन ? चेतसा परिणतेन मनसा, किंभूतः साधुः ? लाभेन निर्जरादिनार्थोऽस्येति लाभार्थिकः सन् कथम् ? इत्याह-यत एवं जानाति यदि मे मम साधवो मयानीतो यः प्रासुकः पिण्डः, तस्य ग्रहणेनानुग्रहं प्रसादं कुर्युः, तदाहं तारितो भवसमुद्रात् स्यां भवामि एवं चिन्तयित्वोचितवेलायां साधुराचार्यमामन्त्रयेत्, यद्याचार्यो गृह्णाति, ततो भव्यं कदाचित् स स्वयं न गृह्णाति