________________
१३२
दशवैकालिकं-टीकात्रिकयुतम् दुक्कडम्" इत्यन्तं सूत्रं पठित्वा । व्युत्सृष्टः-कायोत्सर्गस्थः । चिन्तयेदिदम् ।।५.९१ ।।
(स.) ततः किं कुर्यात् ? इत्याह-न...इति साधुस्तस्य सूक्ष्मातिचारस्य यत् पूर्व कृतं तत् पुरस्कर्म, यत् पश्चात् कृतं तत् पश्चात्कर्म सूक्ष्म न सम्यगालोचितं भवेत्, कुतः ? अज्ञानादनाभोगेनाऽननुस्मरणाद् वा, तत् सर्वं पुनरालोचनान्तरकालं प्रतिक्रामेत्, किं कृत्वा ? 'इच्छामि पडिक्कमिउं गोअरचरिआए' इत्यादि सूत्रं पठित्वा, ततो व्युत्सृष्टः कायोत्सर्गस्थ इदं वक्ष्यमाणं गाथारूपं चिन्तयेत्. ।।५.९१।।।
(सु.) तदनु च 'न सम्म...इति न सम्यगालोचितं भवेत् सूक्ष्म, अज्ञानात् अनाभोगेनाऽननुस्मरणाद्वा, पूर्वं पश्चाद्वा यत्कृतं, पुरस्कर्म पश्चात्कर्म चेत्यर्थः । पुनरालोचनोत्तरकालं प्रतिक्रामेत्, तस्य-सूक्ष्मातिचारस्य 'इच्छामि पडिक्कमिउं गोयरचरियाए' इत्यादि सूत्रं पठित्वा व्युत्सृष्टः-कायोत्सर्गस्था, चिन्तयेदिदं-वक्ष्यमाणलक्षणमिति ।।५.९१।।
अहो जिणेहिं असावज्जा, वित्ती साहूण देसिया | मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ।।५.१.९२।।
(ति.) किं तत् ? - अहो जिनैरसावद्या वृत्तिः साधूनां देशिता, मोक्षसाधनहेतोः साधुदेहस्य धारणेति । प्राकृतत्वाल्लुप्तचतुर्थीकं धारणायै इत्यर्थः ।।५.९२ ।।
(स.) किं चिन्तयेत् ? तद् आह-अहो इति-अहो इति विस्मये, जिनैस्तीर्थकरैः साधूनां वृत्तिर्दर्शिता देशिता वा, किंभूता वृत्तिः ? असावद्या अपापा, कस्मै ? साधुदेहस्य धारणाय धारणार्थं, किंभूतस्य साधुदेहस्य ? मोक्षसाधनहेतोः, मोक्षसाधनं ज्ञानदर्शनचारित्ररूपं, तस्य हेतोः. ।।१२।।
(स.) 'अहो जिणेहिं' - 'अहो' विस्मये, जिनैः-तीर्थकरैः, असावद्या-अपापा, वृत्तिः-वर्तना, साधूनां दर्शिता देशिता वा, मोक्षसाधनहेतोः-सम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य धारणाय संधारणार्थमिति ।।५.९२ ।।
नमुक्कारेण पारित्ता, करित्ता जिणसंथवं । .. सज्जायं पट्टवित्ताणं, वीसमिज्ज खणं मुणी ।।५.१.९३ ।।
(ति.) ततश्च-नमस्कारेण-नमो अरिहंताणं इत्यनेन पारयित्वा । कृत्वा जिनसंस्तवम्-चतुर्विंशतिस्तवं भणित्वेत्यर्थः । स्वाध्यायं प्रस्थाप्य विश्राम्येत् क्षणं