________________
पञ्चमम् अध्ययनम्
१३१ कायोत्सर्गे आभोगयित्वा ज्ञात्वा, कुत्रेत्याह-गमनागमनयोः; गमने गच्छत, आगमन आगच्छतः, पुनः भक्तपानयोः, भक्ते पाने च. ।।५.८९ ।।
(सु.) आभोइत्ताण'इति तत्र कायोत्सर्गे आभोगयित्वा-ज्ञात्वा निःशेषमतिचारं यथाक्रमं परिपाट्या, क्व ? इत्याह-गमनागमनयोश्चैव-गमने-गच्छत, आगमने-आगच्छतो, योऽतिचारः, तथा भक्तपानयोश्च-भक्ते पाने च योऽतिचारस्तं संयतः-साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति ।।५.८९।।
उज्जु-पन्नो अणुविग्गो, अव्वक्खित्तेण चेयसा । आलोए गुरुसगासे, जं जहा गहियं भवे ।।५.१.९०।।
(ति.) उत्सार्य च कायोत्सर्ग-ऋजुप्रज्ञः-अकुटिलमतिः । अनुद्विग्नः-क्षुदादिजयात् प्रसन्नः । अव्याक्षिप्तेन चेतसा अन्यत्र अगतचित्तेन । शेषं स्पष्टम् ।।५.९० ।।
(स.) कायोत्सर्गे पारिते च किं कुर्यात्-इत्याह-उज्जु-इति साधुरशनादि यथा येन प्रकारेण हस्तप्रदानादिना गृहीतं भवेत्, तद् गुरुसमीपे आलोचयेद् गुरोर्निवेदयेदिति भावः, केन ? एवंविधेन चेतसा, किंभूतेन चेतसा, 'अव्वक्खित्तेण' अव्याक्षिप्तेनान्यत्रोपयोगमगच्छता, किंभूतः साधुः ? ऋजुप्रज्ञो-ऽकुटिलमतिः, पुनः किंभूतः साधुः ? अनुद्विग्नः, सर्वत्र क्षुदादिजयात् प्रशान्तः ।।१०।।
(सु.) विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्नो'इति-ऋजुप्रज्ञः-अकुटिलमतिः, सर्वत्र अनुद्विग्नः-क्षुधादिजयात्, प्रशान्तः, अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेत् गुरुसकाशे-गुरोनिवेदयेदितिभावः । यदशनादि, यथा-येन प्रकारेण हस्तप्रदा(धाव)नादिना गृहीतं भवेदिति सूत्रार्थः ।।५.९०।।
न सम्ममालोइयं 'हुज्जा, पुब्बिं पच्छा व जं कडं । पुणो पडिक्कमे तस्स, चोसट्ठो चिंतए इमं ।।५.१.९१।।
(ति.) तदनु च-न सम्यगालोचितं भवेत् । सूक्ष्ममज्ञानाद् विस्मरणाद् वा 'पूर्वं पश्चाद् वा यत्कृतं दात्र्या पुरःपश्चात्कर्म वेत्यर्थः । पुनः-आलोचितान्तरम् । प्रतिक्रामेत | तस्य-सूक्ष्मातिचारस्य । "इच्छामि पडिक्कमिउं गोयरचरियाए" इत्यादि "तस्स मिच्छामि
-
१. पुरः ६-१०.१२ ।।