________________
१३०
दशवैकालिकं-टीकात्रिकयुतम् (सु.) वसतिमधिकृत्य भोजनविधिमाह-'सिआ य'इति, स्यात् कदाचित् तद् द्रव्यं कारणाभावे सति भिक्षुरिच्छेदिति शय्यां-वसतिमागम्य परिभोक्तुं, तत्रायं विधिःसह पिण्डपातेन-विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेव उन्दुकंस्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः ।।५.८८ ।।
विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ य पडिक्कमे ।।५.१.८८।।
(ति.) विशोध्य पिण्डं विनयेन-कृताञ्जलिः, "नैषेधिकी नमः क्षमाश्रमणेभ्यः" इत्युच्चरन् । प्रविश्य वसतिं गुरुसकाशमागतः । ऐर्यापथिकीमादाय-"इच्छामि पडिक्कमिउं" इत्यादि पठित्वा । प्रतिक्रामेत्-कायोत्सर्ग कुर्यात् ।।५.८८ ।।
(स.) ततः पश्चात् किं कुर्यात् ? - इत्याह-विणएणं'इति-साधुस्तत्रागतो गुरुसमीपं प्रतिक्रामेत् कायोत्सर्गं कुर्यात्, किं कृत्वा ? 'गुरुसगासे इरियावहिअं आयाय' गुरुसमीपे ईर्यापथिकां 'इच्छामि पडिक्कमिउं' इत्यादि पाठरूपाम् 'आयाय' पठित्वा, पुनः किं कृत्वा ? 'विणएण पविसित्ता' पूर्वं पिण्डं विशोध्य बहिर्विनयेन 'नैषेधिकी नमः क्षमाश्रमणेभ्यः'अञ्जलिकरणलक्षणेन, वसतिमिति शेषः; प्रविश्य. ।।५.८८ ।।
(सु.) तत ऊर्ध्वं 'विणएणं त्ति विशोध्य पिण्डं बहिः 'विनयेन' 'षेधिकी नमः क्षमाश्रमणेभ्यो अञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोःमुनिर्गुरुसमीप इत्यर्थः । ईर्यापथिकीमादाय 'इच्छामि पडिक्कमिउं इरियावहियाए' इत्यादि सूत्रं पठित्वा, आगतश्च गुरुसमीपं प्रतिक्रामेत्-कायोत्सर्गं कुर्यादिति ।।५.८८ ।।
आभोइत्ताण नीसेसं, अईयारं जहक्कम । गमणागमणे चेव, भत्तपाणं च संजए ||५.१.८९ ।।
(ति.) तत्र कायोत्सर्गे आभोगयित्वा निःशेषमतिचारं यथाक्रम, गमनागमनयोश्चैव भक्तपानयोश्च योऽतिचारस्तम् । संयतः कायोत्सर्गस्थो हृदये स्थापयेदिति शेषः ।।
(स.) ततः किं कुर्यात् ?- इत्याह आभोइ...इति-साधुः कायोत्सर्गस्थस्तमतिचार हृदये स्थापयेत्, किम्भूतमतिचार ? निःशेषं यथाक्रमं परिपाट्या, किं कृत्वा ? तत्र