________________
पञ्चमम् अध्ययनम्
१२९
(स.) तं' इति साधुः तदस्थ्यादिकमुत्क्षिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत्, तथाऽऽस्येन मुखेन नोज्झेत्, माभूद् विराधनेति हेतोः अपि तु किं कुर्यात् ? हस्तेन तदस्थ्यादिकं गृहीत्वैकान्तं निर्व्यञ्जनं (? - निर्जनं) स्थानमवक्रामेद् गच्छेत् ।। ५.८५ ।।
(सु.) 'तं उक्खिवित्तु' इति, तदस्थि इति, उत्क्षिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत्, तथा आस्येन मुखेन नोज्झेत् मा भूद्विराधनेति, अपि तु हस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेदिति ।।५.८५ ।।
एतमवक्कमित्ता, अचित्तं पडिलेहिया ।
जययं परिट्ठविज्जा, परिट्ठप्प पडिक्कमे ।। ५.१.८६ ।। त्रिभिर्विशेषकम्
( ति . ) एषोऽपि स्पष्टः ।
(स.) तत्र गत्वा किं कुर्यात् ? - इत्याह- एगंतं 'इति-साधुस्तदस्थ्यादिकं यतमत्वरितं परिष्ठापयेत्, किं कृत्वा ? एकान्तमवक्रम्य गत्वा पुनः किं कृत्वा ? अचित्तं प्रासुकं प्रत्युपेक्ष्य चक्षुषा, रजोहरणेन प्रमार्ण्य (प्रमृज्य) च परिष्ठाप्य च प्रतिक्रामेदीर्यापथिकीमिति ।।८६ ।।
(सु.) इगन्त...इति एकान्तमवक्रम्याचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामयेदिति भावार्थः पूर्ववदेवेति ।।५.८६ ।।
सिया य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्तुयं । सपिंडपायमागम्म, उंडुयं पडिलेहिया ।।५.१.८७ । ।
(ति.) वसत्या [मा] गतस्य भोजनविधिमाह - स्याद् भिक्षुरिच्छेत् । शय्याम् - वसतिम । आगम्य भोक्तुं सह पिण्डपातेन - भिक्षया । भिन्नवाक्यत्वान्न पौनरुक्त्यम् । आगम्य वसतिद्वारे बहिरेव । उण्डुकम् स्थानं प्रत्युपेक्ष्य पिण्डपातं विशोधयेदिति शेषः ।।५.८७ ।।
(स.) अथ वसतिमधिकृत्य भोजनविधिमाह - सिया' इति स्यात् कदाचित् तदन्यकारणाभावे सति भिक्षुरिच्छेत् शय्यां वसतिं किं कृत्वा ? आगम्य तत्रागत्य, किमथ ? परिभोक्तुं भोजननिमित्तं, तत्रायं विधिः- सपिण्डपातं पिण्डपातेन विशुद्धसमुदानेनागम्य, वसतिमिति शेषः, बहिरेव उण्डुकं स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेत्, 112011