________________
दशवैकालिकं-टीकात्रिकयुतम्
१२८
सन् भुञ्जीत, किं कृत्वा ? तत्स्वामिनमवग्रहमनुज्ञाप्यादेशं गृहीत्वा, सागारिकपरिहारतो विश्रामणव्याजेन. किंभूतः संयतः ? मेधावी साधुसामाचारीविधिज्ञः किंभूते कोष्ठकादिस्थाने ? प्रतिच्छन्ने, उपरि तृणादिभिराच्छादिते, नाकाशे, किंभूतः संयतः ? संवृत उपयुक्तः सन्नीर्याप्रतिक्रमणं कृत्वा ततो हस्तकं मुखवस्त्रिकारूपमादायेति शेषः, तेन विधिना कार्य सम्प्रमृज्य भुञ्जीत ।। ५.८३ ।।
(सु.) तत्र - 'अणुन्नवित्तु इति - अनुज्ञाप्य सागारिकपरिहारतो विश्रमणव्याजेन तत्स्वामिनमवग्रहं मेधावी - साधुः, प्रतिच्छन्ने तत्र कोष्ठकादौ, संवृत्तः - उपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा तदनु हस्तकं - मुखवस्त्रिकारूपमादायेति वाक्यशेषः । संप्रमृज्य विधिना तेन कायं, तत्र भुञ्जीत संयतो रागद्वेषावपाकृत्येति सूत्रार्थः ।।५.८३।।
तत्थ से भुंजमाणस्स, अट्टियं कंटओ सिया ।
तणकट्टं सक्करं वा वि, अन्नं वा वि तहाविहं ।। ५.१.८४ ।।
(ति) स्पष्टः । अन्नं वा वि' - अन्यद्वापि, ईलिका - केश-धान्य कीटिकादि गृहस्थप्रमादेन अशोधिते धान्ये राद्धे ।।५.८४ ।।
(स.) अथ तत्र भुञ्जानस्य साधोरस्थि वा कण्टकादि वा स्यात्, तदा साधुः किं कुर्यात् ? इत्याह-तत्थ...इति तत्र कोष्ठकादौ, 'से' तस्य साधोर्भुञ्जानस्यास्थि वा कण्टको वा स्यात्, अन्ये वदन्ति - कथञ्चित् गृहिणां प्रमाददोषात् कारणगृहीते पुद्गल एव, तृणं वा काष्ठं वा शर्करा वा स्यात्, अन्यद् वापि तथाविधं बदरकण्टकादि वा स्यात् ।।५.८४।।
(सु.) तत्थ' इति तत्र कोष्ठकादौ से तस्य साधोः भुञ्जानस्यास्थि कण्टको वा स्यात्, कथञ्चित् गृहिणां प्रमाददोषात् कारणगृहीते पुद्गल एवेत्यन्ये । तृणं काष्ठं शर्करं चापि स्यात्, उचितभोजने अन्यद् वापि तथाविधं बदरकर्कटादीति ।।५.८४।।
तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । हत्थेण संगहेऊणं, एगंतमवक्कमे ।।५.१.८५ । ।
(ति.) तदुत्क्षिप्य न यत्र कुत्रचिन्निक्षिपेत् । आस्येन न छर्दयेत् 'मा भूत् कस्यापि विराधनेति । शेषं स्पष्टम् ।।५.८५।।