________________
१२७
पञ्चमम् अध्ययनम्
(सु.) अस्यैव विधिमाह-'एगन्त'इति-एकान्तं अवक्रम्य-गत्वा अचित्तं दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन स्थण्डिलमिति गम्यते, यतं-अत्वरितं प्रतिष्ठापयेत्, विधिना त्रिः वाक्यपूर्वं व्युत्सृजेत्, प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेत् ईयापथिकाम् । एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणं, अबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति ।।५.८१।।
सिया य गोयरग्गओ, इच्छिज्जा परिभुत्तुयं । कुट्टगं भित्तिमूलं वा, पडिलेहित्ताण फासुयं ।।५.१.८२।। (ति.) एवमन्न-पानग्रहणविधिमभिधाय भोजनविधिमाह-स्याद् गोचराग्रगतो दूरे ग्रामान्तरे वा भिक्षाप्रविष्टो बालादिस्तृषाद्यभिभूतः। इच्छेत् परिभोक्तुम् । कोष्टकम्शून्यागारमठादि । भित्तिमूलं वा-कुट्यकोणं वा । प्रत्युपेक्ष्य-दृशा, रजोहृत्या च प्रमृज्य । प्राशुकम्-बीजादिरहितम् ।।५.८२।। ___ (स.) एवमन्नपानग्रहणविधि कथयित्वा भोजनविधिमाह-सिया'इति-बालादिः साधुः पिपासाद्यभिभूतः स्यात् कदाचिद् गोचराग्रगतो ग्रामान्तरं भिक्षार्थं प्रविष्टः सन् परिभोक्तुमिच्छेत् तदा तत्र वसतिर्नास्ति. तदा कोष्ठकं शून्यं च मठादि भित्तिमूलं वा कुड्यैकदेशादि इति । ।५.८२।। ___ (सु.) एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ य'इति-स्यात्कदाचित् गोचराग्रगतो-ग्रामान्तरं भिक्षां प्रविष्ट इच्छेत्, परिभोक्तुं पानादिपिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे कोष्ठकं-शून्यं चट्टमठादि भित्तिमूलं वा-कुड्यैकदेशादि प्रत्युपेक्ष्य-चक्षुषा, प्रमृज्य च रजोहरणेन, प्रासुकं-बीजादिरहितं चेति ।।५.८२ ।।
अणुन्नवित्तु मेहावी, पडिच्छन्नंमि संवुडे । हत्थगं संपमज्जित्ता, तत्थ भुंजिज्ज संजओ(ए) ।।५.१.८३।।
(ति.) अनुज्ञाप्य गृहस्थं, मेधावी साधुः, प्रतिच्छन्ने स्थाने, संकृत्तः (वृतः) ईप्रतिक्रम्य, हस्तकं उपलक्षणत्वाद् देहं मुखवस्त्रिकया प्रमृज्य, कवलादानकाले च हस्तं मुखं च तत्र भुञ्जीत संयतः ।।५.८३ ।।
(स.) आह-अणुन्न...इति-संयतः साधुस्तत्र स्थाने वक्ष्यमाणेन विधिना रागद्वेषरहितः