________________
१२६
दशवैकालिकं-टीकात्रिकयुतम्
देहापकारकमित्यात्मना न पिबेत्, नाप्यन्यस्य दापयेत् ।।५.७९-५.८० ।।
(स.) अथ कदाचित् स्त्री तदत्यम्लमपि ददाति तदा तां ददतीं प्रति साधुः किं वक्ति तदा—तं'इति-तच्चात्यम्लं पूति, नालं समर्थं तृष्णां विनेतुं ततो ददतीं प्रति वक्ति, न मम कल्पते तादृशमिति. ।।५.७९।।
अथाकामादिना कदाचित् तदत्यम्लादिकं गृहीतं तदा को विधिः? - तद् आहतं इति एवंविधमत्यम्लादि साधुना कदाचिदकामेनाग्रहवशेन विमनस्केन - अन्यचित्तेन प्रतीच्छितं गृहीतं भवेत्, तदापि तत् साधुर्न पिबेत् कायस्यापकारकमित्यनाभोगधर्मश्रद्धयापि, नापि अन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणम् इह चेयं भावना - 'सव्वत्थ संजमं, संजमाओ अप्पाणं चेव रक्खिज्जा' इति ।। ८० ।।
(सु.) आस्वादितं च सत् साधुप्रायोग्यं चेत् गृह्यत एव नो चेत्, अग्राह्यं, अत आह-तं चेति, गतार्थं चेति ।।५.७९ ।।
(सु.) 'तं च होज्ज' इति, तच्चात्यम्लादि भवेत्, अकामेन उपरोधशीलतया विमनस्केनअन्यचित्तेन प्रतीच्छितं-गृहीतं, तदात्मना कायापकारकमनाभोगधर्म्मश्रद्धया न पिबेत्, नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणम् । इह च "सव्वत्थ संजमं, संजमाओ अप्पाणमेव " इत्यादि भावनेति । । ५.८० ।।
एगंतमवक्कमित्ता, अच्चित्तं पडिलेहिया ।
जयं परिट्ठविज्जा, परिट्टप्प पडिक्कमे ।। ५.१.८१।।
(ति.) तर्हि कथं तत्-कार्यं ? - तद् विधिमाह - [ एगंत...] स्पष्टः । नवरं पडिक्कमेऐर्यापथिकीं प्रतिक्रामेत् ।।५.८१ ।।
(स.) ननु स्वयं तादृशं न पिबेत्, अन्यस्य न पाययेत्, तर्हि किं कुर्यात् ? इत्याह- एगं...इति-साधुस्तत्पूर्वं गृहीतमत्यम्लादिकं प्रतिष्ठापयेद् विधिना व्युत्सृजेत्, किं कृत्वा ? एकान्तं स्थानमवक्रम्य गत्वा, अचित्तं दग्धप्रदेशादिस्थानं, प्रत्युपेक्ष्य चक्षुषा, प्रमृज्य च रजोहरणेन स्थण्डिलमिति शेषः, कथं प्रतिष्ठापयेत् ? यतमत्वरितं न शीघ्रं प्रतिष्ठापनानन्तरं किं कुर्यात् ? - इत्याह-प्रतिष्ठाप्य वसतिमुपाश्रयमागतः सन् प्रतिक्रामेदीर्यापथिकीम्, एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति ।।८१।।