________________
पञ्चमम् अध्ययनम्
१२५ चतुर्थरसमप्यपूत्यादि देहोपकारकं मत्या दर्शनेन वा ज्ञात्वा, शङ्कितं भवेत् पूत्यादिभावेन, ततः तत् पानीयमास्वाद्य रोचयेद् विनिश्चयं कुर्यात्. ।।५.७७ ।।
(सु.) उष्णोदकादिविधिमाह-'अजीवंति सूत्रं, उष्णोदकं अजीवं परिणतं ज्ञात्वा त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्त्तते, तदेवम्भूतं प्रतिगृह्णीयात् संयतः, चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः । अथ शङ्कितं भवेत् पूत्यादिभावेन, तत आस्वाद्य रोचयेद् विनिश्चयं कुर्यादिति ।।५.७७।।
थोवमासायणट्टाए, हत्थगंमि दलाहि मे | मा मे अचंबिलं पूई, नालं तन्हविणित्तए ।।५.१.७८ ।। (ति.) तच्चैवम्-स्तोकमास्वादनाय हस्ते देहि मे | मा मम अत्यम्लं कुथितं वा, नालं तृष्णानिवर्त्तनाय । ततः किमस्योपादानेन ? | प्रायोग्यं चेद् ग्राह्यम् ।।५.७८ ।।
(स.) अथ केन विधिना विनिश्चयं कुर्यात् ?- इत्याह-थोव...इति-साधुर्दातारं प्रत्येवं वदेत्, एवं किं ? मे मम हस्ते आस्वादनार्थं स्तोकं पानीयं प्रथमं देहि ? यदि साधोरुपभोग्यं ततो ग्रहीष्ये, मा मे मम अत्यम्लं पूति तृषापनोदाय नालं समर्थं, ततः किमनेनाप्रयोजनेनेति. तत आस्वादितं सच्च तत् साधुयोग्यं चेद् भवति तदा गृह्यत एव, नो चेत् तदाऽग्राह्यम् ।।७८ ।।
(सु.) तच्चैवं-'थोवं'इति-स्तोकमास्वादनार्थं प्रथमं तावद्धस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मेऽत्यम्लं पूति नालं तृडपनोदाय, ततः किमनेनानुपयोगिना? इति सूत्रार्थः ।।५.७८ ।।
तं च अच्चंबिलं पूइ, नालं तण्हविणित्तए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.७९ ।।
तं च हुज्ज अकामेणं, विमणेण पडिच्छियं । तं अप्पणा न पिबे, नो वि अन्नस्स दावए ।।५.१.८०।। (ति.) तच्च भवेत् । अकामेन-निरभिलाषेण । विमनस्केन प्रतीप्सितम् । तत्र
१. तिण्हं विणित्तए...इति मुद्रितेऽन्यत्र पाठः ।। २. इयं गाथा १-७.९-१२ प्रतिषु नास्ति ।।