________________
१२४
दशवैकालिकं- टीकात्रिकयुतम्
जं जाणिज्ज चिराधोयं, मईए दरिसणेण वा । पडिपुच्छिया व सुच्चा वा, जं च निस्संकियं भवे ।।५.१.७६ ।।
(ति.) अत्रैव विधिमाह-यत्- तन्दुलोदकादि । जानीयात् चिरधौतं मत्या दर्शनेन वा कलुष्याधोनिविष्टतया कियती वेला धौतस्यास्येति प्रतिपृच्छय वा गृहस्थम् । 'सुच्चा वा' वाशब्दश्चार्थे, महती वेलेति तत्प्रतिवचः श्रुत्वा च । यदेव निःशङ्कितं भवेत् तद् गृह्णीयादित्यर्थः । । ५.७६ । ।
(स.) अत्रैव विधिमाह – जं' इति साधुर्यत् तन्दुलोदकमेवं जानीयात् तद् गृह्णीयादिति शेषः, किंविशिष्टं तन्दुलोदकं ? चिराद् धौतं कथं जानीयात् ? - इत्याह-मत्या तद्ग्रहणादिकर्मजया, तथा दर्शनेन वा वर्णादिपरिणतसूत्रानुसारेण, वा किं कृत्वा ? इति गृहस्थं पृष्ट्वा, इतीति किं ? कियती वेलास्य धौतस्य जातेति च पुनरिति श्रुत्वा गृहस्थाद्, इतीति किं ? महती वेला जातास्य धौतस्येति एवं च यन्निःशङ्कितं भवति तद् गृह्णीयादिति. ।।५.७६ ।।
(सु.) अत्रैव विधिमाह - 'जं जाणेज्ज' इति सूत्रं, तन्दुलोदकं जानीयात्-विन्द्यात्, चिरधौतं, कथं जानीयात् ? - इत्याह-मत्या दर्शनेन वा, मत्या- तद्ग्रहणादिकर्म्मजया, दर्शनेन वा-वर्णादिपरिणतसूत्रानुसारेण, वा चशब्दार्थः, तदप्येवम्भूतं कियती वेलाऽस्य धौतस्येति पृष्ट्वा गृहस्थं, श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचनं, यच्चेति, यदेवं निःशङ्कितं भवति, निरवयवं प्रशान्ततया तन्दुलोदकं तत् प्रतिगृह्णीयादिति । विशेषः पिण्डनिर्युक्तावुक्त इति ।।५.७६ ।।
अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए ।
अह संकियं भविज्जा, आसाइत्ताण रोवए ।।५.१.७७ ।।
(ति.) उष्णोदकादिविधिमाह - अजीवं परिणतम् - त्रिदण्डपरिर्तनादिरूपम् । गृहस्थप्रश्नेन ज्ञात्वा प्रतिगृह्णीयात् संयतः । तदभावे चतुर्थरसमपि देहोपकारकं मत्यादिना ज्ञात्वा । अथ शङ्कितं भवेत् कुथिताम्लत्वादिना । तत आस्वाद्य रोचयेत् - निश्चे (च्च) यं कुर्यात् ।।
(स.) अथोष्णोदकादिविधिमाह - अजीवं...' इति संयतः साधुरेवंविधमुष्णोदकं गृहणीयादित्युक्तिः, किं कृत्वा ! अजीवं प्रासुकं, तथा परिणतं त्रिदण्डोत्कलितं,