________________
१२३
पञ्चमम् अध्ययनम्
(ति.) अत्र दोषमाह-अल्पं स्याद् भोजनजातं बहूज्झनधर्मकमेतत् । शेषं स्पष्टम् 11५.७४।। __(स.) एतद् ग्रहणे दोषमाह-अप्पे इति-बहुअट्ठिअपुग्गलादिके भक्षिते सत्यल्पं स्याद् भोजनजातं. तथैतबहूज्झनधर्मकं च, यतश्चैवं ततो ददतीं प्रति साधुर्वदेत् न मम कल्पते तादृशमिति ।।७४।।
(सु.) अत्रैव दोषमाह-'अप्पे'इति अल्पं स्यात्, भोजनजातमत्र तथा बहूज्झनधर्मकमेतद् यतश्चैवं ?-अतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति ||५.७४।।
तहेवुच्चावयं पाणं, अदुवा वारधोयणं । संसेइमं चाउलोदगं, अहुणाधोयं विवज्जए ||५.१.७५।।
(ति.) उक्तोऽशनविधिः । अधुना पानविधिमाह - यथा प्रागशनमुच्चावचमुक्तं तथैव पानम् । उच्चम्-वर्णाद्युपेतं, द्राक्षापानादि। अवचम्-वर्णादिहीनं, आरनालादि । अथवा वारकधावनम्-गुडघटक्षालनं, धान्यस्थाली-क्षालनाद्यपि । संस्वेदजम्-पिष्टस्वेदसङ्गतोदकादि । तन्दुलोदकम्-आष्टिकरकमुच्यते। तदधुना धौतम्-अपरिणतम् । विवर्जयेत् ।।५.७५।।
(स.) उक्तोऽशनविधिः, अथ पानविधिमाह-तहे...इति-एवंविधं पानं गृह्णीयात्, किंविधं पानं ? तथैवोच्चावचं, तथैव यथाशनमुच्चावचम्, उच्चं वर्णाद्युपेतं द्राक्षापानादि, अवचं वर्णादिहीनं पूत्यारनालादि, अथवा वार कधावनं गुडघटधावनादि धान्यस्थालीक्षालनादि, संस्वेदजं पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां साधुर्गृह्णीयादिति वाक्यशेषः. तन्दुलोदक-मधुनाधौतमपरिणतं साधुर्विवर्जयेत्. ||७५ ।।
(सु.) उक्तोऽशनविधिः । साम्प्रतं पानविधिमाह-'तहेव'इति-तथैव यथा अशनमुच्चावच्चं तथा पानं, उच्च-वर्णाद्युपेतं द्राक्षापानादि, अवचं-वर्णादिहीनं पूत्यारनालादि, अथवा वारकधावनं-गुडघटधावनादीत्यर्थः। संस्वेदजं-पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः । तन्दुलोदकं त्वट्टिकरकं(व्रीहिदकं) अधुनाधौतमपरिणतं विवर्जयेदिति ।।५.७५ ।।