________________
१२२
- दशवैकालिकं-टीकात्रिकयुतम् प्रसह्यमनेकदिनस्थापनेन प्रकटम्, अत एव रजसा पार्थिवेन परिस्पृष्टं-व्याप्तं, तदित्थम्भूतं तु ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति सूत्रद्वयार्थः ।।५.७२ ।।
बहुअट्ठियं पुग्गलं, अणमिसं वा बहुकंटयं । अत्थियं 'तिंड्यं बिल्लं, उच्छखंडं च सिंबलिं ।।५.१.७३।। (ति.) किञ्च-इह वनस्पत्यधिकारः । बहुस्थिकम्-बहुबीजम् । पुद्गलम् पुद्गलाख्यवृक्ष-फलम् । अनिमिषं वा-अनिमिषनाम्नो वृक्षस्य फलम् । बहुकण्टकम् । अत्थियम्-अस्तिकवृक्षफलम् । तिण्डुकम्-टिम्बरुकीफलम् । बिल्लम् इक्षुखण्डं च प्रतीतम् । सिंबलिं-शाल्मलीं वल्लादिफलिकां वा ।।५.७३ ।।
(स.) पुनः किं किं कीदृशं कीदृशं दीयमानमपि न गृह्णीयात् ? तदाहबहु...इति साधुः पुद्गलादिकं दीयमानमपि न गृह्णीयादित्युक्तिः पुद्गलं मांसं, किंभूतं पुद्गलं ? बह्वस्थिकं, तथा अनिमिषं वा मत्स्यं, किंभूतमनिमिषं ? बहुकण्टकम्, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति वनस्पत्यधिकारात् तथाविधफलाभिधाने एते इति. तथा चाह-अस्थिकमस्थिकवृक्षफलं, तिन्दुकं तिन्दुरुकीफलं, बिल्वमिक्षुखण्डं चैतद् द्वयमपि प्रसिद्ध, शाल्मलीं वा वल्लादिफलिं च. ।७३।।
(सु.) किञ्च-बहुअट्ठियं पोग्गलं'इति-बह्वस्थिकं पुद्गलं-मांसं, अनिमिषं वा मत्स्यं वा बहुकण्टकं, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः । अन्ये त्वभिदधति"वनस्पत्यधिकारात तथाविधफलाभिधाने एते" इति । तथा चाह-अस्थिकंअस्थिकवृक्षफलं, तिंदुकं ति तेन्दुकीफलं, बिल्वं इक्षुखण्डं च प्रतीते, शाल्मलिं वा वल्लादिफलं, वाशब्दस्य व्यवहितः सम्बन्ध इति ।।५.७३ ।।
अप्पे सिया भोयणज्जाए, बहु उज्झियधम्मिए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.७४ ।।
१. ति. २.३.५ ।। २. तिडु १.३-५.१० ।।