________________
१२१
पञ्चमम् अध्ययनम् तालफलादि ३, आमं छिन्नं च सन्निरं, सन्निरमिति पत्रशाकं ४ तुम्बाकं त्वग्मज्जान्तर्वार्द्र, तुलसीमित्यन्ये ५, शृङ्गबेरं चाकम् ६, च आमकं सचित्तं ।।७०।।
(सु.) प्रतिषेधाधिकार एवाह 'कंदं मूलं'इति-कन्द-सूरणादिलक्षणं, मूलंपिण्डादिवृन्दारिकादिरूपं, प्रलम्ब वा-तालफलादि, आमं छिन्नं च सन्निरं-सन्निरमिति, पत्रशाकं, तुम्बाकं त्वग्मिजान्तर्वार्द्रा वा तुलसीमित्यन्ये, शृङ्गबेरं च-आर्द्रकं, आमकं परिवर्जयेदिति ।।५.७०।।
तहेव सत्तुचुन्नाई, कोलचुन्नाइं आयणे । सक्कुलिं फाणियं पूर्य, अन्नं वा वि तहाविहं ।।५.१.७१।।
विक्कायमाणं पसढं, रएण परिफासियं दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.७२ ।। युग्मम्
(ति.) तथैव शक्तुचूर्णान्, शक्तून् कोलचूर्णान्-बदरचूर्णान् । आपणे-हट्टे । शष्कुलीम्-तिलपर्पटिकाम् । फाणितम्-द्रवगुडम् । पूपम्-कणिक्खादिमयम् । अन्यद् वा-तथाविधं मोदकादिकं विक्रीयमाणम्-आपणे प्रसढम्-प्रसोढं विक्रयाभावात् चिरस्थापितं, प्राकृतत्वादोकारस्य अकारः । अत एव रजसा परिस्पृष्टम्-व्याप्तम् । तद् ददतीं प्रत्याचक्षीत न मे कल्पते तादृशमिति गाथाद्वयार्थः ।।५.७१।।
(स.) पुनः कीदृशं परिवर्जयेत् ?-इत्याह-तहेव...इति-तथैव सक्तुचूर्णान् सक्तून् १, कोलचूर्णान् बदरचूर्णान् २. आपणे वीथ्यां तथा शष्कुलिं तिलवर्पटिकां ३, फाणितं द्रवगुडं ४, पूपकं कणिकादिमयम् ५, अन्यद् वा तथाविधं मोदकादि. |७१।।
तत् किं ? इत्याह-विक्का...इति-एवम्भूतं सक्तुचूर्णादिकं दीयमानमपि साधुन गृह्णीयादित्यर्थः ।।७२।।
(सु.) तहेव'इति तथैव सक्तुचूर्णान्, कोलचूर्णान्-बदरसक्तून् आपणे-वीथ्यां, तथा शष्कुलिं तिलपर्पटिकां, फाणितं-द्रवगुडं, पूर्य-कणिक्कादिमयं, अन्यद् वा तथाविधं मोदकादि ।।५.७१।।
(सु.) किमित्याह-'विक्काय'इति विक्रायमाणं-विक्रीयमाणमापण इति वर्त्तते ।
१.०य. १.३-५ ।।